________________
सूयगडाङ्ग-
द्वितीये
दीपिकान्वितम् ।
N
सांख्यमतनिरूपणम् ।
॥१३॥
दान-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति, एवमेव पूर्वोक्तप्रकारेण स्त्रीसम्बन्धिषु कामभोगेषु मृञ्छिताः 'गृद्धाः' कासावन्तो 'ग्रथिताः' अवबद्धाः 'अध्युपपन्ना' लुब्धाः रागद्वेषवशगाः कामभोगान्धा वा, ते एवं कामभोगेष्ववबद्धाः सन्तो नात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति-कर्मबन्धात्रोटयन्ति, नाप्यन्यान् प्राणान् भूतान् जीवान् सच्चान् समुच्छेदयन्ति । ते चैवविधास्तज्जीवतच्छरीरवादिनो लोकायतिकाः 'पूर्व| संयोगा'त्पुत्रदारादिकात् 'प्रहीणाः' प्रभ्रष्टाः, आर्यमार्गमसम्प्राप्ताः, ऐहिकाऽऽमुष्मिकलोकद्वयात् प्रभ्रष्टाः, अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पुण्डरीकोत्क्षेपणादिकं कार्य प्रसाधयन्ति । इत्ययं च प्रथमपुरुषस्तजीवतच्छरीरवादी परिसमाप्त इति । इति प्रथमः पुरुषः। अथ द्वितीयपुरुषजातमधिकृत्याऽऽह
अहावरे दोच्चे पुरिसजाए पंच महब्भूतिएत्ति आहिजति, इह खलु पाईणं वा दाहिणं वा पडीणं वा उत्तरं वा संतेगतिया मणुस्सा भवंति अणुपुत्वेणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दरूवा वेगे, तेसिं च णं महं एगे राया भवति महया०] एवं चेव निरवसेसं जाव सेणावतिपुत्ता, तेसिं च णं एगतिए सड्ढी भवति । कामं तं समणा य माहणा य पहारिंसु गमणाए। तत्थऽन्नयरेणं धम्मेणं पन्नत्तारो वयमिमेणं धम्मेणं पन्नवइस्तामो, से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति ।
॥१३॥
For Private & Personal Use Only
Jain Education
wwerjainelibrary.org