________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ११ ॥
Jain Education
afe प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः खङ्गादिना घातयत पृथिव्यादिकं खनतेत्यादि सुगमम् । यावदेतावानेव - शरीरमात्र एव जीवस्ततः परलोकिनोऽभावान्नास्ति परलोकस्तदभावाच्च यथेष्टमासत खादत पिवत सुखमनुभवत दहत पचत, अत्र दोषो नास्ति, जीवस्याभावान्न परलोको नापि पुण्यं न पापं, इत्येवं लोकायतिकास्त जीवतच्छरीरवादिनो नैवैतद्रक्ष्यमाणं विप्रतिवेदयन्ति - नाभ्युपगच्छन्ति । तद्यथा
किरियाई वा अकिरिया वा, सुकडेइ वा दुक्कडेड् वा, कल्लाणएति वा पावएति वा, साहूति वा असाहूति वा, सिद्धीति वा असिद्धीति वा, निरएति वा अनिरएति वा । एवं ते विरूत्ररूहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए ।
व्याख्या -ये एवं मन्यन्ते नास्ति जीवो नास्ति परलोकस्ते नैवं विप्रतिवेदयन्ति-नाभ्युपगच्छन्ति । किं नाभ्युपग च्छन्ति ? 'क्रिया' सदनुष्ठानात्मिकां ' अक्रियां' असदनुष्ठानरूपां एवं नैव ते विप्रतिवेदयन्ति । कुतः १ यद्यात्मा क्रियावां स्तर्हि कर्मबन्धः, क्रियया शुभं कर्म बध्यते अक्रियया त्वशुभं ततश्च कोऽपि भोक्ता स्यात् । स तु परलोकगामी जीव एव, स तु मूलतोऽपि निराकृत एव ततश्च कः कर्म बध्नाति ? कश्च कर्मफलमनुभवति १ जीवाभावात्, अतः सत्क्रियादिचिन्ता दूरोत्सादितैव, अतः क्रियामक्रियां च नः मन्यन्ते । तथा सुकृतं वा दुष्कृतं वा, कल्याणमिति पापमिति वा, साधुकृतमसाधुकृतमित्यादिका चिन्तैव नास्ति । तथाहि - ' सुकृतानां कल्याणविपाकिनां साधुतयाऽवस्थानं ' दुष्कृतानां पापविपाकिनां
For Private & Personal Use Only
द्वितीवे
श्रु०
चारवाकभतोप
संहारः ।
॥ ११ ॥
www.jainelibrary.org