SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ यथा महति पके निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत् कदमविषययोः साम्यमिति । 'जनाः' सामान्यलोकाः 'जानपदा' विशिष्टार्यदेशोत्पन्नाः गृह्यन्ते, ताँश्च समाश्रित्य-मया दार्शन्तिकत्वेनाङ्गीकृत्य तानि बहूनि पावरपुण्डरीकाणि दृष्टान्तत्वेनाभिहितानि । राजानमात्मन्याहृत्य तदेकं पद्मवरपुण्डरीकं दृष्टान्तत्वेनाभिहितम् । तथाऽन्यतीथिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहितास्तेषां राजपुण्डरीकोद्धरणसामर्थ्यवैकल्यात् । तथा धर्म च खल्वास्मन्याहृत्य श्रमणायुष्मन् ! स भिक्षुः रूक्षवृत्तिरभिहितः, तस्यैव चक्रवर्त्यादिराजपद्मवरपुण्डरीकस्योद्धरणसामर्थ्य सद्भावात् । धर्मतीर्थं च खल्वाश्रित्य मया तत्तीरमुक्तम् । तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षोः सम्बन्धी शब्दोऽभिहितः। तथा 'निर्वाणं' मोक्षपदमशेषकर्मक्षयरूपमीपत्प्राग्भाराख्यभूमागोपर्यवस्थितं क्षेत्रखण्डं चात्मन्याहृत्य स पावरपुण्डरीकस्यो. त्पातोऽमिहितः। ' एवं ' पूर्वोक्तप्रकारेण [ए]तल्लोकादिकं च खल्वात्मन्याहृत्य-आश्रित्य मया श्रमणायुष्मन् ! 'से' एतत्पुष्करिण्यादिकं दृष्टान्तस्वेन किश्चित्साधादेवमुक्तमिति ॥ ८॥ एतावता सामान्येन दृष्टान्तदान्तिकयोजना कृता, अथ विशेषेण प्रधानभृतराजदार्शन्तिकं तदुद्धरणार्थत्वात सर्वप्रयासस्येति दर्शयितुमाह इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवति । अणुपुवेणं लो[ग]गतं (१) उववन्ना, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया | वेगे कायमंता वेगे [र]हस्समंता वेगे सुवण्णा वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च Jain Education For PrivatePersonal Use Only wwwEjainelibrary.org का
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy