SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ निग्गंथा[य] निग्गंथीओ [य] वंदति नमसंति, वंदित्ता नमंसित्ता एवं वयासी-किट्टिते नाए समणाउसो!, अटुं पुण से ण जाणामो। समणाउसो!त्ति समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंधीओ य आमंतेत्ता एवं वदासी-हंत समणाउसो ! ते आतिक्खामि विभावेमि किमि पवेदेमि सअटुं सहेउयं सनिमित्तं भुजो भुजो उवदंसौम से बेमि (सू०७)॥ व्याख्या-कीर्तिते' कथिते मयाऽस्मिन् ज्ञाते हे श्रमणा! आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः। एतदुक्तं भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, इत्येवमुक्त भगवता ते बहवो निर्ग्रन्था निर्ग्रन्ध्यश्च तं श्रमण मगवन्तं महावीर ते निर्ग्रन्थादयो वन्दन्ते (कायेन), नमस्यन्ति-स्तुवन्ति । वन्दित्वा [नमस्यित्वा] चैवं वक्ष्यमाणं वदेयु:-'कीर्तितमुदाहरणं भगवता, अर्थ पुनरस्य सम्यग्न जानीम, इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तान्निग्रन्थादीनेवं वदेव-[हते]ति सम्प्रेषणे, हे श्रमणा आयुष्मन्तो ! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि-भवतां ['विमावयामि'] आविर्भावयामि- प्रकटार्थ करोमि 'कीर्तयामि' पर्यायकथनद्वारेण तथा 'पवेदेमि'त्ति प्रवेदयामि-प्रकर्षेण हेतु दृष्टान्तैश्चित्तसन्ततावारोपयामि । कथं प्रतिपादयामीति दर्शयति-सार्थ-पुष्करिणीदृष्टान्तं सहेतुकं प्रतिपादयिष्यामि, यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्वारे निमन्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य, तत्रैव निमज्जन्तीत्येवरूपोऽर्थः सदृष्टान्तः प्रदर्शयिष्यते । सनिमित्तं-सकारणं दृष्टान्तार्थ भूयो भूयोऽपरैरपरैर्हेतु दृष्टान्तरुपदर्शयामि । सोऽहं साम्प्रतमेव ब्रवीमि, शृणुत यूयमिति । Jain Education Internal For PrivatePersonal Use Only W inrar og
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy