________________
एयगडाङ्ग
दीपिकान्वितम् ।
१/२ श्रुतMI स्कंधे
आद्येऽध्ययने आधपुरुषद्वयस्वरूपम्
॥२॥
अपत्ते पउमवरपुंडरीयं, नो हवाए नो पाराए, अंतरा पुक्खरिणीए सेयंसि वि[नि]सन्ने, पढमे पुरिसजाए (सू० २)॥
अथानन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणी, तस्याश्च (पुष्करिण्याः) 'तीरे' तटे स्थित्वा तदेतत् (पश्यति, ततस्तत्) पद्म पूर्वोक्तविशेषणकलापोपेतं स पुरुषः, पूर्वदिग्भागव्यस्थित ' एवं ' | वक्ष्यमाणनीत्या 'वदेत् ' ब्रूयात्-'अहमंसि'त्ति अहमस्मि पुरुषः, किम्भूतः ? ( 'खेदज्ञो' मनोऽभिलषितकार्यकरणकालभाविपरिश्रमनः) 'कुशल'श्चतुरो-निपुणः, तथा 'पण्डितः' धर्मज्ञो देशकालक्षेत्रज्ञः । 'व्यक्तो' बालभावानिष्क्रान्त:परिणतधुद्धिः ' मेधावी' प्लवनोत्प्लवनयोरुपायज्ञ तथा 'अबालो' मध्यमवयाः षोडशवर्षोपरिवर्ती ' मार्गस्थः' सद्धिराचीर्णमार्गव्यवस्थितो मार्गझस्तथा मार्गस्य या 'गतिर्गमनं वर्त्तते, तया यत्पराक्रमणं-विवक्षितदेशगमनं, तज्जानातीति पराक्रमझो, यदिवा 'पराक्रमः' सामर्थ्य तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतोऽहमेतत्पद्मवरपुण्डरीकं पुष्करिणीमध्यदेशव्यवस्थितमुत्क्षेप्यामि-निष्कासयिष्यामीति कृत्वेहागतः, इत्युक्त्वाऽसौ पुरुषस्ता पुष्करिणीमभिमुखं कामे-त्तदभिमुखं गच्छेत् । याव[द्याव]चासौ तदवतरणाभिप्रायेणाभिमुख कामेत्ताव चाव]च 'ण' मिति वाक्यालङ्कारे, तस्याः पुष्करिण्या महत्यगाधे जले कईमे च मग्नः । तत्राऽऽकण्ठं निमग्नत्वादत्याऽकुलीभूतः 'प्रहीण'स्तीरादात्मानं उद्धर्तुमसमर्थो विवक्षितपावरपुण्ड
+ मजनोन्मजनयोविधिज्ञः ।
For P
Jan Education
Tvw.jainelibrary.org
& Personal use only