________________
(इवा)ए वि दंडे निक्खित्ते, अयंपि भेदे से नो णेआउए भवति । [ सू० ९] - व्याख्या-गौतम उदकं पेढालपुत्र प्रत्यवादी-नो खलु आयुष्मन् उदक! अस्माकं सम्बन्धिना वक्तव्येन एतदस्ति, यत्सर्वेऽपि त्रसाः स्थावरत्वेन प्रत्यायान्ति स्थावराः सर्वेऽपि त्रसत्वेन प्रत्यायान्ति नैतदस्मद्वक्तव्यतायामस्ति, तथाहि-नैतद्भूतं न च भवति न कदाचिद्भविष्यति, यदुत सर्वेऽपि स्थावग निलेपतया त्रमत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तिः४ तथा वसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति-यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथाप्यपरापरत्रसोत्पच्या सजा. त्यनुच्छेदान्न कदाचिदपि त्रसकाय शून्यः संसारो भवतीति सर्वथा नियुक्तिकं भवद्वचः। भवदीयं पक्ष भवदभिप्रायेणैव निराक्रियते-तदेव पराभिप्रायेण परिहरति-अस्त्पसौ पर्यायः, स चायं-भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते यस्मिन् पर्याये-ऽवस्थाविशेपे श्रमणोपासकस्य कुनत्रसप्राणातिपातनिवृत्तेः सतस्त्रसत्वेन [च] मवदम्युपगमेन सर्वप्राणिनामुत्पत्तेस्तैश्च सर्वप्राणिभित्रसत्वेन भने-रुत्पन्न करणभूतस्तेषु [वा] विषयभूतेषु दण्डो - निक्षिप्तः' परित्यक्तः । इदमुक्तं भवति-यदा सर्वेऽपि स्थावरा भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं तं हेउं ?' इत्यादि सुगम, यावत्तमकाये समुत्पन्नानां स्थावराणां स्थानमेत
x अनन्ताः स्थावरा असंख्यातानां त्रसानां मध्ये क समान्ति !।
Jan Education
For Pwee & Personal use only
ना