________________
अथ सप्तमं नालन्दीयाख्यमध्ययनम् ।
व्याख्यातं षष्ठमध्ययनं, साम्प्रतं सप्तमं नालन्दीयाख्यं समारम्यते अस्य चायमभिसम्बन्धः
इह द्वितीयाऽङ्गे प्राक्तनेषु सर्वेष्वप्यध्ययनेषु स्वसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादिनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावधर्मस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकः सह वाद इह तु स्वयुध्यरित्यनेन सम्बन्धेनायातमिदमध्ययनं प्रारम्यते, तथाहि
ते णं काले णं ते णं समए णं रायगिहे नामं नगरे होत्था, रिद्धिस्थिमियसमिद्धे वण्णओ जाव पडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदा. नाम बाहिरिया होत्था, अणेगभवणसयसंनिविट्ठा जाव पडिरूवा [ सू०१] व्याख्या-सुगम, नवरं नालन्दा इति नाम्ना पाटकविशेषः समभूत् । तस्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था । अढे दित्ते वित्ते जाव |
Jain Education inter
For PrivatePersonal Use Only
IN
w.jainelibrary.org