________________
भारत
संवच्छरेणावि य एगमेगं, पाणं हणंता अणिअत्तदोसा।
सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥ व्याख्या-संवत्सरेणैकैकं प्राणिनं सन्तोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, एतावता धर्मबुद्ध्या शेषजीवरक्षार्थमेकैकं प्राणिनं प्रतामपि प्राणिवधो लगत्येव, आशंसादोषश्च भवतां पश्चेन्द्रियमहाकायसचवधपरायणानामतिदुष्टो भवति, साधूनां सूर्यरश्मिप्रकाशितबीथिषु युगमात्रदृष्ट्या गच्छतामीर्या[ समिति ] पमितानां द्विचत्वारिंशदोष[रहित ] माहारमन्वेषयतां लाभालाभसमवृतीनां कुत आशंसादोषः ? पिपीलिकादिसचोपघातो वा ? तथा ( यदि ) स्तोकसचोपघातेन दोषाभावोऽभ्युपगम्यते तदा गृहस्था अपि आजीविकार्थमारम्भं कुर्वन्तः स्वक्षेत्रे आरम्भं कुर्वन्ति, न परत्र क्वापि, तेऽपि स्तोकजीववधकारिणोऽपरसर्वजन्तूनां क्षेत्रकालव्यवहितानां रक्षणाद् गृहिणोऽपि निदोषा एव, स्तोकजीववधकारिणः प्रभूतसत्वरक्षकाः, ततस्तेऽपि भवदभिप्रायेण गृहस्था अपि दोषरहिता एवेति गाथार्थः ॥ ५३ ॥ साम्प्रतमार्द्रकुमारो हस्तितापसान दूपयित्वा तदुपदेष्टारं दूपयितुमाह
संवच्छरेणावि य एगमेगं, पाणं वहता समणवतेसु ।
आयाहिते से पुरिसे अणजे, नो तारिसे केवलिणो भवंति ॥ ५४॥ व्याख्या-भो हस्तितापसाः! भवन्मते श्रमणव्रते व्यवस्थिताः सन्तः एकैकं संवत्सरेणापि ये नन्ति ये चोपदिशन्ति
-
For Private & Personal Use Oy
jainelibrary.org
Jan Education in