SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्र ० दीपिकान्वितम् । १२९ ।। Jain Education In सर्वेऽपि नित्यास्तथा च सति कुतो बन्धमवद्भावः १ बन्धाभावाच न नारकतिर्यङ्न रामरलचणचतुर्गतिकः संसारो, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्व, एवं च यदुच्यते भत्रता - यथा 'आवयोस्तुल्यो धर्म' इति तदयुक्तमुक्तं यतो न कथञ्चिदावयोः साम्यं, किञ्च सर्वव्यापित्वे सत्यात्मनो विकारित्वे चात्माद्वैते चाभ्यु पगम्यमाने नरकतिर्यङ्गनरामरभेदेन बालकुमारसुभगादुर्भगाढ्य दरिद्रादिभेदेन वा न मीयेरन्-न परिच्छिद्येरन्, नापि स्वकर्म्मप्रेरिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मगा न क्षत्रिया न वैश्या न प्रेष्या न शूद्रा नापि की पक्षिसरीसृपाश्च भवेयुः तथा नराच सर्वेऽपि देवलोकाचेत्येवं नानागतिभेदेन न भियेरन् अतो न सर्वव्याप्यात्मा तथा नाप्यात्माऽद्वैतवादो ज्यायान् यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव गुणविज्ञानोपलब्धेरिति स्थितं, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञ प्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपचसमाश्रयणादिति ॥ ४८ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाद लोयं अजाणिति केवलेणं, कहति जे धम्मम जाणमाणा । संति अप्पा परं च नट्ठा, संसारघोरम्मि अणोरपारे ॥ ४९ ॥ व्याख्या - लोकं चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञात्वा ' केवलेन' दिव्यज्ञानावभासेन ' इह ' अस्मिन् जगति ये तीर्थिका ‘ अजानाना ' अविद्वांसो धर्म्म दुर्गतिगमनमार्गार्गलाभूतं 'कथयन्ति ' प्रतिपादयन्ति ते स्वतो नष्टा naj For Private & Personal Use Only द्वितीये श्रुत● षष्ठाध्ययने एकदण्डि मत निर सनमाईकुमारेण । ॥ १२९ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy