________________
द्वयं यो भोजयेत्सोऽसत्पात्रनिक्षिप्तदानस्तैः स्नातकै शणैः सह नरके बहुवेदने [गच्छति] एतावता त्रयस्त्रिंशत्सागरायुनारको जायते इति गाथार्थः ।। ४४ ॥ अपि च
दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे ।
एगंपि जे भोजयति असीलं, निवो णिसं जाति कोऽसुरेहिं ? ॥४५॥ व्याख्या-[दयया वरं]दयावरं धर्म 'जुगुप्समानो' निन्दन तथा 'वधात्मकं' प्राण्युपमात्मकं धर्म प्रशंसन् एकमपि 'अशील' विरतिरहितं षट्कायोपमन यो भोजयेत् , एकमपि, किम्पुनः प्रभूतान् ?'नृपो' राजाऽन्यो वा यः कश्चिन्मूढमति. र्धार्मिकमात्मानं मन्यमानः, स वराको निशेव नित्यान्धकारवानिशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वप्यधमदेवेषु प्राप्तिरिति गाथार्थः॥४५॥
तदेवमार्द्रकुमारं निराकृतब्राह्मणवाद भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराल एवोचुस्तद्यथा-भो आईककुमार! शोभनं कृतं भवता, यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणा मांसाशिनो राक्षसकल्पा द्विजातयो निराकृताः, साम्प्रतमस्मसिद्धान्तं शृणु, श्रुत्वा चावधारय, अस्मसिद्धान्तभवसिद्धान्तयोर्न कोऽपि भेदोऽस्ति, इत्येतदर्शयितुमाह
दुहओ वि धम्ममि समुट्ठियामो, अस्सि सुठिच्चा तह एसकालं । आयारसीले बुइएऽह णाणे, ण संपरायम्मि विसेसमस्थि ॥ ४६ ॥
rininelibrary.org
Jain Education in
For Private & Personal Use Only