SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern व्याख्या - अहो भिचवः । एवंविधाम्युपगमे युष्माभिरेव लब्धः ' अर्थो' विज्ञानं यथावस्थितं तत्त्वमिति तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभागः कर्मविपाकस्तत्पीडा इति, तथा एवम्भूतेन विज्ञानेन भवतां यशः पूर्व समुद्रमपरं समुद्रं च स्पृष्टं - गतमित्यर्थः तथा भवद्भिरेवं [विघ] विज्ञानावलो केनावलोकितः पाणितलस्थित इवायं लोक इति अहो ! Hai विज्ञानातिशयो !! यदुत-पिण्याकपुरुषयोरला बुकचालकयोर्वा बाते [ पापस्य ] कर्म्मणो मात्राभावं प्राक्रू कल्पितवन्तो भवन्त इति गाथार्थः || ३४ || अथार्द्रकः परपक्षं दूषयित्वा स्वपक्षस्थापनायाह जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीइ सोहिं । न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥ ३५ ॥ व्याख्या - जिनशासनप्रतिपन्नाः [ सर्वज्ञोक्तमार्गानुसारिणो ] जीवानामनुभाग - मवस्थाविशेषं तदुपमर्देन पीडां वा सुष्ठु ' विचिन्तयन्तः ' पर्यालोचयन्तः अन्नविधौ शुद्धि ' आहृतवन्तः ' स्वीकृतवन्तो द्विचत्वारिंशदोषहितेन शुद्धेनाहारेणाहारं कृतवन्तो, नतु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति, एवंविधं वचोऽपि जैना महर्षयो न भाषन्ते । भवन्तः कीदृशाः ? छन्नपदोपजीविनः, हिंसास्थानोपजीविन इत्यर्थः, न तादृशा जैना मुनयः तेषां हि मुनीनां निर्दोषाहारग्रहणेन षट् कायप्रतिपालनेन तीर्थङ्करानुयायी धम्मों ज्ञेय इति गाथार्थः || ३५ || पुनरार्द्रकुमारः कथयति - For Private & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy