________________
योरपि सम्पद्यते अतोऽमाध्वेतत् , कयोयोरित्याह-ये वदन्ति पिण्याकबुझ्या पुरुषपाकेऽपि पातकामावं ये च तेभ्य: शृण्वन्ति तयोर्द्वयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमहजने मावशुस्या शुद्धिर्भवति, यदि स्यात्संसारमोचकादी. नामपि तहि कमविमोक्षः स्यात्, तथा मावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तस्मान्नैवंविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितमिति गाथार्थः ॥ ३० ॥ अथाकः स्वपक्षाविर्भावनायाह
उहुं अहेयं तिरियं दिसासु, विन्नाय लिंगं तसथावराणं ।
भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा वि कओ विहऽस्थि ॥ ३१॥ व्याख्या-ऊर्द्धमधस्तिर्यक सर्वासु दिक्षु प्रसानां स्थावराणां च लिङ्ग-चलनस्पन्दनारोद्भवच्छेदम्लानादिकं विज्ञाय भूताभिशङ्कया-जीवोपमर्दोऽत्र भविष्यतीत्येवं बुद्ध्या सर्वमनुष्ठान जुगुप्समानस्तदुपमई परिहरन् ' वदेत् ' धर्म कथयेत्कुर्या-IN दप्यतः कुतोऽस्तीहास्मिन्नेवम्भतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति गाथार्थः ॥ ३१ ॥ अथ खले पुरुषबुद्धया असम्भवमेव दर्शयितुमाह
पुरिसेत्ति पिन्नंति [विन्नत्ति] न एय अस्थि, अणारिए से पुरिसे तहा हु। को संभवो ? पिन्नगपिंडियाए, वाया वि एसा बुइया असच्चा ॥ ३२ ॥
Jain Education
For Private & Personal Use Only
Ww.jainelibrary.org