________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
।। १२१ ।।
Jain Education Internat
गौरवादिषु 'गृद्धा' मूर्च्छिताः, न त्वेवम्भूता भगवन्तोऽईन्तः, कथं तेषां तैः सह साधर्म्यमिति दूरत एव निरस्तेषा कथेति गाथार्थः ।। २२ ।। किञ्च
तेसिं च
आरंभगं चैव परिग्गहं च, अविउस्सिया णिस्तिय आयंदडा । उदए जं वयासी, चउरंतणताय दुहाय णेह ॥ २३ ॥
व्याख्या - आरम्भं परिग्रहं च ' अभ्युत्सृज्य ' अपरित्यज्य तस्मिन्नेवारम्भे परिग्रहे च निश्चयेन ' सृता ' बद्धानिसृता वणिजो भवन्ति । तथा आत्मदण्डा असदाचारप्रवृत्तेरिति भावोऽपि च तेषां वणिजां परिग्रहारम्भवत स 'उदयो' लाभो यदर्थे ते प्रवृत्ताः यं च त्वं लाभं वदसि स तेषां 'चतुरन्तः' चतुर्गतिको यः संसारोऽनन्तस्तस्मै - तदर्थं भवतीति, [तथा] दुःखाय च भवति । अतस्त्वमर्हतां वणिजां साम्यं मा कुर्विति गाथार्थः ।। २३ ।। एतदेव दर्शयितुमाहगतिएऽणञ्चंतिय उदए से, वयंति ते दो वि गुणोदयंमि ।
से उदय सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई ॥ २४ ॥
व्याख्या – अहो गोशालक ! स वणिजां लाभो नैकान्तिकः, लाभार्थं धावतामलाभोऽपि स्यात् स तु लाभ आत्यन्तिकोऽपि न - अवश्यं सर्वकालभाव्यपि न, कदाचित्स्यात् कदाचिन्नेति व्यापारविदो वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ, किमुक्तं भवति १ किं तेनोदयेन-लाभेन । यो नैकान्तिको नात्यन्तिकथ अनर्थाय च प्रत्युत स्यात् । तथा
For Private & Personal Use Only
द्वितीये
श्रुत●
षष्ठाध्ययने
वणिजैस्स
हासाधर्म्य
भगवतः ॥
॥ १२१ ॥
linelibrary.org