________________
अनुष्ठाने क्रियमाणे तस्योदयस्यार्थी-लाभार्थी श्रमण इति ब्रवीम्यहमिति ॥२०॥ न चैवम्भृता वणिज इति पुनरार्द्रकुमारो दर्शयितमाह
समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा ।
ते णातिसंजोगमविप्पहाय, आयस्स हेउं पकरोति संगं ॥ २१ ॥ व्याख्या-ते हि वणिजश्चतुर्दशप्रकारमपि भूतग्राम समारमन्ते, तदुपमईकाः क्रियाः प्रवर्सयन्ति क्रयविक्रया शकट. वाहनोष्ट्रमण्डलिका( श्वाना )दिभिरनुष्ठानैरिति, तथा परिग्रहं द्विपदचतुष्पदादिकं ममीकुर्वन्ति, ते हि वणिजो जातिभिः सह संयोग ' अविप्रहाय ' अपरित्यज्य 'आयस्य' लाभस्य हेतोरपरेण सार्द्ध सङ्ग' सम्बन्धं कुर्वन्ति । भगवास्तु-षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षः सर्वत्राप्रतिबद्धो धर्माऽऽयमन्वेषयन् गत्वाऽपि धर्मदेशनां विधत्ते, अतो मगवतो वणिग्भिः सार्धं न सर्वसाधर्म्यमस्तीति गाथार्थः ॥ २१ ॥ पुनरपि वणिजां दोषमुद्भावयन्नाह
वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्टा वणिया वयंति ।
वयं तु कामेहि अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥ २२ ॥ व्याख्या-वणिजो वितैषिणस्तथा ' मैथुने ' स्त्रीसम्प 'सम्प्रगाढा' अध्युपपन्नास्तथा ते भोजनार्थ-माहारार्थ वणिज इतश्चेतश्च व्रजन्ति वदन्ति वा, ताँस्तु वणिजो वयमेवं अमो-यथेते कामेष्वध्युपपन्नाः-गृद्धाः, अनार्या रसेषु च साता
Jain Education intemer
For Private & Personal Use Only
inelibrary.org