________________
भाषाया ये गुणा हितमितदेशकालासन्दिग्धभाषणादयस्तन्निषेत्रकस्य सतो धर्म कथयतोऽपि नास्ति दोषः, छद्मस्थस्य हिर [बाहुल्येन] मौनमेव श्रेयः समुत्पन्न केवलस्य हि भाषणमपि गुणायेति गाथार्थः ॥ ५ ॥ किम्भूतं धर्ममसौ कथयतीत्याह
महत्वए पंच अणुव्वए य, तहेव पंचासव संवरे य।
विरई इहस्सामणियंमि पन्ने, लवावसक्की समणे तिबेमि ॥६॥ व्याख्या-पञ्चमहाव्रतानि तथा पश्चैवाणुव्रतानि श्रावकानुद्दिश्य प्रज्ञापितवान् , तथा पश्चाश्रवसंवरं च तथा सप्तदशप्रकारं संयमं च प्रतिपादितवान् , संयमवतो हि विरतिर्भवत्यतो विरतिं च प्रतिपादितवान् , च शब्दात्तत्फलभृतौ निर्जरा. मोक्षौ च कथितवान् । कथम्भूतः ? श्रामण्ये प्राप्तः प्राज्ञो वा एतत्प्रतिपादितवान् , कथम्भूतो ? 'लवावसक्की' लवंकर्म, तस्मादवसर्पति, एवंविधः श्रमणस्तपस्वी, स्वयमेव हि भगवान् पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतो लवाव[वष्की]सी सन्, ततोऽन्येषामपि तथाभूतमुपदेशं दत्तवान् । तत आईककुमारवचनमाकर्ण्य गोशालकस्तत्प्रतिपक्षभूतमर्थ वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु त्वमिति गाथार्थः ॥ ६ ॥ अथाह गोशालकः
सीओदगं सेवउ बीयकायं, अहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेति पावं ॥ ७॥
For Private & Personal Use Only
www.janeibrary.org