SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ व्याख्या-यद्येकान्तचारित्वमेव शोभनं, पूर्वमाश्रितत्वात्ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्त्तव्यं, अथ चेदं महापरिवारवृतं साधुतया मन्यसे ततस्तदेवादावयाचरणीयमासीत , अपि च द्वे अप्येते छायाऽऽतपबदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः। तथा यदि मौनेन धर्मस्ततः किमियं महता प्रवन्धेन धर्मदेशना ? अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाऽललम्बे ? । तदेवं गोशालकेनोक्ते सत्याकः श्लोकपश्चानोत्तरदानायाह-'पुचि चे 'त्यादि, 'पूर्व ' पूर्व स्मिन् काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छमस्थत्वाद घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यद्धर्मदेशनादीनां दानं तत्तीर्थ| करनाम्नो वेदनार्थं "+तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं" इति वचनात् , अपरामा चोचैर्गोत्रशुभायु मादीनां शुभप्रकृतीनां वेदनार्थमिति, यदिवा पूर्व साम्प्रतं चानागते काले[च ]रागद्वेषरहितत्वादेकत्वभावनाऽनतिक्रमणाचेंकत्वमेवाशेषजनहितं धर्म कथयन् सन्दधाति, न तस्य पूर्वोत्तस्योरवस्थयोराशंमारहितत्वाद्भेदोऽस्ति । यदुच्यते| पूर्वोत्तरयोरवस्थयोर्भेदस्तन्न किश्चित् ।। ३ ॥ अथ धर्मदेशनया श्रोतृणां कश्चिदुपकारोऽपि स्यादत आह समिच्च लोयं तसथावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयई तहच्चे ॥ ४ ॥ व्याख्या-' समेत्य ' ज्ञात्वा लोकं त्रसस्थावराणां जन्तूनां 'क्षेम' शान्ति:-रक्षा, तत्करणशीलः क्षेमङ्करः श्रमणो + तब कथं वेद्यते ! अग्लान्या धर्मदेशनादिभिः । Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy