________________
अथ षष्ठमाईकीयमध्ययनम् ।
उक्त पश्चममध्ययनं, साम्प्रतं षष्ठमारम्यते इदमाईककुमाराध्ययनम् ।
अत्र आर्द्रककुमारोत्पत्तिः प्राग्भवस्वरूपप्रतिमादर्शनोत्पन्नजातिस्मरणादिकं सर्व बृहट्टीकातोऽवसेयं, अत्र तु सूत्रार्थ एव | प्रतन्यते, तथाहि
पुरे कडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी।
से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिम्हि पुढो वित्थरेणं ॥१॥ ___ व्याख्या-यथा गोशालकेन समं वादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रमार्द्रककुमार प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीद् , यथा-भो आर्द्रक ! यदहं ब्रवीमि तच्छृणु, 'पुरा' पूर्व यदनेन भवतीर्थकृता कृतं तच्चेदमिति दर्शयति-पुरा एकान्तप्रदेशचारी-श्रमणः पुराऽऽसीत्तपश्चरणोधुक्तः, साम्प्रतं तूफ़ैस्तपश्चरणभग्नो मां विहाय देवादिमध्यगतोऽसौ धर्म कथयति । बहून् मिथुनुपनीय-प्रभृतशिष्यपरिवारं कृत्वा भवद्विधानां मुग्ध जनानामिदानीं धर्ममाचष्टे पृथक पृथक् विस्तरेणेति गाथार्थः ॥१॥
T
Jain Education
www.jainelibrary.org
For Private & Personal Use Only
a
l