SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ व्याख्या-यथेष्टार्थफलसम्प्राप्तिः कल्याणं तन्त्र विद्यते तथा पापं पापवान्वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, इत्येवं रूपां संज्ञां नो निवेशयेत् , यत:-कल्याणपापयोविना सुखी दुःखी सरोगी निरोगी सुरूपः कुरूपो दुर्भगः सुभगो धनी दरिद्रो मूर्खः पण्डितो वेत्यादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात्तस्मादस्ति कल्याणं पापं चेत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ २८ ॥ न चैकान्तेन[ कल्याणं ]कल्याण मेव, यतः-केवलिनां प्रक्षीणघनवातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा । नारकाणामपि पश्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावान्कान्तेन ते पापवन्त इति, तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितं । तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्य एकान्तं दृषयितुकाम आहकल्लाणे पावए वा वि, ववहारो न विजई। जं वेरंतं न जाणंति, समणा बालपंडिया ॥ २९ ॥ व्याख्या-सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवम्भृतो व्यवहारो न विद्यते, एकान्तस्यार्थस्याभावात , अनेकान्तवादस्यैवाश्रयणात्सर्ववस्तूनामने कान्ताश्रयणेन[प्राक प्रसाधितत्वात् , एकान्तिको व्यवहारो न विद्यते कुत्रापि वस्तु. विषये इति भावः । यः पुरुष एकान्तेन पुण्यवान् दृश्यते सोऽप्यन्त्यावस्थायां परिणामपरावर्तादुर्गतौ प्रयाति यः पापी सोऽपि परिणामवशात्मुगतिगामी स्यात् , अत एकान्तवचनं न ब्रूयात् । तथा वैरं कर्मविरोधो वा वैरं, तद्येन च परोप x" तदभावे कल्याणवांश्च न कश्चिद्विद्यते" इति बृहद्वृत्तिः । For Private & Personal use Day wwerjainelibrary.org Jain Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy