________________
परिणामाच, सिद्धस्योद्धर्वगतिर्भवेत् ॥२॥ कुलालचक्रदोलेषु, मुख्याणां हि यथा गतिः। पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्द्धगतिस्तथा ॥ ३ ॥ मृल्लेपसङ्गनिर्मोक्षा-द्यथा दृष्टाऽऽश्वलावुनः । पूर्वसङ्गविनिर्मोक्षा-त्तथा सिद्धिगतिः स्मृता ॥ ४॥ एरण्डफलबीजादे-बन्धच्छेदाद्यथा गतिः। कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथा भवेत् ॥ ५॥ यथाऽधस्तियंगूई च, लोष्टवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते, तथोर्द्धगतिरात्मनः | ॥ ६॥ न चाधो गौरवाभावा-नतिर्यक् प्रेरकं विना। न च धर्मास्तिकायस्या-भावाल्लोकोपरि व्रजेत् ॥७॥ मनोज्ञा सुरभिस्तन्वी, पुण्या परमभासुरा। प्रागभारा नाम वसुधा, लोकमूनि व्यवस्थिता ।। ८॥ नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा । ऊर्द्ध तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः ॥९॥ इसीपन्भाराए, उवरिं खलु जोयणमि जो कोसो। कोसस्स य छन्भाए, सिद्धाणोगाहणा भणिया ॥१०॥" इति सिद्धानां स्थानम् । अथ सिद्धास्तु-" नो किण्हे नो नीले नो लोहिए नो हालिदे नो सुकिल्ले नो सुरभिगंधे नो दुरभिगंधे नो तित्ते नो कडुए नी कसाए नो अंबिले नो महुरे (नो लवणे )नो बट्टे नो तंसे नो चउरंसे नो परिमंडले नो दीहे नो हस्से नो गुरुए नो लहए नो सीए नो उण्हे नो कक्खडे नो मउए नो इत्थी नो पुरिस नो अन्नहा" एवं सिद्धाः लोकाग्रपदसंस्थिताः सदाऽव्ययाः अनन्ता अजरामराः सदाऽऽनन्दमया अवतिष्ठन्ते । एवं सिद्धास्तथा सिद्धानां च स्थानं विद्यते, एवं संज्ञां निवेशयेदिति गाथार्थः ॥ २६ ॥ नत्थि साहू असाहू वा, नेवं सन्नं निवेसए । अत्थि साहू असाहू वा, एवं सन्नं निवेसए ॥ २७॥
Jain Education Inter
!
For PrivatePersonal Use Only
jainelibrary.org