SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ NI अतः प्रेमाप्यस्ति द्वेषोऽप्यस्ति इत्येवं संज्ञां निवेशयेदिति गाथार्थः ।। २२ ॥x नत्थि चाउरंते संसारे, नेवं सन्नं निवेसए । अस्थि चाउरंते संसारे, एवं सन्नं निवेसए ॥ २३ ॥ व्याख्या-चत्वारोऽन्ता गतिभेदा नारकतिर्यङ्नरामरलक्षणा यस्य संसारस्यासौ चातुरन्तः, संसार एव कान्तारो भयकहेतुत्वात्स चतुर्विधो न विद्यते, अपि तु सर्वेषां संसृतिरूपत्वात् कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यङ्मनुष्ययोरेव सुखदुःखोत्कर्षतया तद्व्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणावेकविधः, अतश्चातुर्विध्यं न कथश्चिद्घटत इत्येवं नो संज्ञां निवेशयेत् , अपि त्वस्ति चातुरन्तः संसार इत्येवं संज्ञां निवेशयेत् । यदुक्तमेकविधः संसारस्तन्न घटते, यतोऽध्यक्षेण तिर्यमनुष्ययोमेंदः समुपलभ्यते, तथा [सम्मवानुमानेन] नारकदेवानामप्यस्तित्वाभ्युपगमात् [द्वैविध्यमपि न विद्यते ], एवं चातुर्गतिक एव संसार इत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥२३॥ नत्थि देवो व देवी वा, नेवं सन्नं निवेसए। अस्थि देवो व देवी वा, एवं सन्नं निवेसए ॥ २४ ॥ व्याख्या-भवनपतिब्यन्तरज्योतिष्कवैमानिका देवा न सन्ति तथा देवाभावाद्देव्योऽपि न सन्ति इत्येवं संज्ञां नो x इतोऽनन्तरं निम्नोद्धृतः श्लोकः सवृत्तिकः समुपलभ्यते हर्षकुलीयायां-" नस्थि रागे व दोसे वा, नेवं सन्नं निवेसए । NI अस्थि रागे व दोसे वा, एवं सनं निवेसए ॥ २३ ।। दी.-रागद्वेषौ न स्तः इति न स्वीकार्य, तौ विद्यते इति मतिः कार्या, युक्तिः पूर्वोक्ता । (पुनरुक्त एवायम् ) Jain Education Ation For Private & Personal use Day
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy