________________
भावः, इत्येवं संज्ञां नो निवेशयेत् । किमिति ? यत:-कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन चापरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, आगमोऽप्येवम्भूत एव, तद्यथा-"x पुब्बि दुच्चिन्नाणं. दुप्पडिकंताणं वेइत्ता मोक्खो, नत्थि अवेइत्ता" इत्यादि । वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्तिवेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥१८॥
वेदना निर्जरा च क्रियाऽक्रियायत्ते, ततस्तद्भाव प्रतिषेधपूर्वकं दर्शयितुमाहनत्थि किरिया अकिरियावा, नेवं सन्नं निवेसए। अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए ॥१९॥ ___व्याख्या-'क्रिया' परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि न स्तो-न विद्येते, इत्येवंविधा संज्ञां नो निवेशयेत् , यतः-शरीराऽत्मनोदेशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽ. भ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, अपि चैकान्तेन क्रियाऽमावे संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया तद्विपक्षभृता चाक्रियाऽप्यस्ति इत्येवंविधां संज्ञां निवेशयेदिति गाथार्थः ॥ १९ ॥
___ अथ सक्रिये आत्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाहVI नत्थि कोहे व माणे वा, नेवं सन्नं निवेसए । अस्थि कोहे व माणे वा, एवं सन्नं निवेसए ॥२०॥
४ पूर्व दुश्वीर्णानां दुष्प्रतिक्रान्तानां (कर्मणां ) वेदयित्वा मोक्षो, नास्त्यवेदयित्वा ।
Jain Education in
For Private & Personal Use Only
ब
www.jaineltrary.org