________________
कथं प्ररूपयेत् ? 'अस्थि धम्मे 'त्यादि, अस्ति धर्म:-अधम्मोऽप्यस्ति, यतो धर्माऽधर्ममन्तरेण संसास्वैचित्र्यं न स्यात् , यत:-"प्रत्यक्ष एव विश्वेऽस्मिन् , प्रपञ्चः पुण्यपापयोः। द्विभिन्नं (हि) जगत्सर्व, सुखदुःखव्यवस्थया ॥१॥ एके दधति साम्राज्य, परे दधति दासताम् ।” इत्यादिवचनात् , अतो धर्मः सम्यग्दर्शनादिकोऽस्ति अधोऽपि मिथ्यात्वादिकोऽस्ति इत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ १४ ॥ नस्थि बंधे व मुक्खे वा, नेवं सन्नं निवेसए । अस्थि बंधे व मुक्खे वा, एवं सन्नं निवेसए ॥ १५ ॥ ___ व्याख्या-बन्धः कर्मणां 'नास्ति' न विद्यते, अमूर्तत्वादात्मनो गगनस्येव न कर्मणां बन्धः, इत्येवं संज्ञां नो निवेशयेत, तथा बन्धाभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् , किन्तु-'अस्थि बंधे व मुक्खे वा' अस्त्यात्मनो बन्धः कर्मणां, अमूर्तस्याप्याऽत्मनो मूः कर्मपुद्गलैः सह सम्बन्धो-बन्धः, स तु विद्यत एव, आत्मनः सक्रियत्वात् , सक्रियस्य स्यादेव बन्धः, यदा ह्यात्माऽक्रियस्तदा न कर्मवन्धः, बन्धाभावाच मोक्ष एव, अतो बन्धोऽप्यस्ति मोक्षोऽप्यस्तीत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ १५॥
अथ बन्धसद्भावे पुण्यपापयोरपि सद्भावः । तर्हिनत्थि पुन्ने व पावे वा, नेवं सन्नं निवेसए । अत्थि पुन्ने व पावे वा, एवं सन्नं निवेसए ॥ १६ ॥
व्याख्या-'नास्ति' न विद्यते 'पुण्यं शुमकर्मप्रकृति लक्षणं तथा पाप-मशुभकर्मप्रकृतिलक्षणं 'नास्ति' न विद्यते,
Jan Edua
For Private & Personal Use Only