SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ कामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-सव्वत्थ वीरिय' मित्यादि, 'सर्वद्रव्यवीर्य सर्वद्रव्येषु विद्यते' अयं साँख्याभिप्रायः, साँख्यानां हि सत्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात् , अतः 'सर्व सर्वात्मक'. मित्येवं व्यवस्थिते सर्वत्र घटपटादावपरस्य व्यक्तस्य [ कार्यस्य ] 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वा. स्कार्यकारणयोश्चैकत्वात् , अतः 'सर्व सर्वात्मक 'मित्येवं संज्ञांनो निवेशयेत , तथा "सर्वे भावाः स्वभावेन, स्वस्वभावे व्यवस्थिताः", अतः प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य 'वीर्य' शक्तिरित्येवमपि संज्ञा नो निवेशयेत , अत्रैकान्तनिषेधेन स्याद्वादभाषया वदेदिति गाथार्थः ॥ १०॥ एतेहिं दोहि ठाणेहि, ववहारो न विजई । एएहिं दोहि ठाणेहि, अणायारं तु जाणए ॥ ११ ॥ ___ सुगमार, व्याख्या पूर्ववत् । तथानस्थि लोए अलोए वा, नेवं सन्नं निवेसए । अत्थि लोए अलोए वा, एवं सन्नं निवेसए ॥ १२॥ व्याख्या-पश्चास्तिकायात्मकचतुर्दशरवात्मको वा लोको नास्ति, एवं संज्ञां नो निवेशयेत्-न धारयेत् , तथा केवलाकाशात्मकोऽलोकोऽपि नास्तीत्येवमपि संज्ञां न निवेशयेत-न निवेदयेत्, किन्तु 'अस्थि लोए' इत्यादि, किन्तु अस्ति लोकः x"द्वाभ्यामेताभ्यां शक्तिरस्ति नास्ति वेति, अथवा शरीराणां सर्वेषां भेदोऽभेदो वेति द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते, युक्तयो न सङ्गगच्छन्ति इत्यर्थः । एतयोः स्थानयोः प्रवृत्तस्यानाचारं जानीयात्" इति हर्षकुलीयदीपिकायां । Jan Education a l For Prve & Personal Use Only Elwww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy