________________
अथ पुनरपि चारित्रमधिकृत्याहारमधिकृत्याचारानाचारौ प्रतिपादयितुकाम आहअहाकम्माणि भुंजंति, अन्नमन्ने सकम्मुणा। उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥८॥
व्याख्या-साधुमाश्रित्य कर्माणि-आधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीनि, एतान्याधाकर्माणि ये भुञ्जन्तेएतरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं' परस्परं तान्स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत , [ तथाऽनुपलिप्तानिति वा नो वदेत् ]। एतदुक्तं भवति-अधाकाऽपि श्रुतोपदेशेन शुद्धमिति कृत्वा भुञ्जानः कर्मणा नोपलिप्यते तथा श्रुतोपदेशमन्तरेणाऽऽहारगृङ्ख्या आधाकर्म भुञ्जानस्य तनिमित्तकर्मबन्धसद्भावाद् , अतोऽनुपलिप्तानपि नो वदेत , यथाऽव. स्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुं-आधाकोपभोगेन स्यारकर्मबन्धः स्यान्नेति, उक्तं च-"किश्चिच्छुद्धं कल्प्य-मकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजाद्यं वा ॥१॥" अतः आधाकर्मणोपलिप्तान् वा अनुपलिप्तान् वा इत्येकान्तेन नो वदेत् ।। ८॥ किमित्येवं स्थाद्वादः प्रतिपाद्यते ? इत्याहएतेहिं दोहिं ठाणेहिं, ववहारो न विजई । एतेहिं दोहिं ठाणेहि, अणायारं तु जाणए ॥९॥ ___ व्याख्या-आभ्यां स्थानाम्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्ध[भावा]भावभूतयोर्व्यवहारो न विद्यते, तथाहि-श्रुते हि कदाऽपि कस्यामप्यवस्थायामाधाकर्मग्रहणमप्यनुज्ञातमस्ति "सव्वस्थ संजमं सं-जमाओ अप्पाणमेव रक्खिजा । मुच्चइ अइवायाओ, पुणो वि सोही न(त)या (१) विरई ॥१॥" तथा-"संथरणमि असुद्धं,
Jain Education
For Private & Personal Use Only
www.jainelibrary.org