________________
Jain Education I
हस्त्यश्वादयः अल्पकायाः- कुन्ध्वादयः, तेषां व्यापादने सदृशं (विसदृशं वा ) वैरमिति एवं (एकान्तेन ) नो वदेत्, यतः बन्धोऽपि अध्यवसायवशाद्भवति, तीव्राध्यवसायिनोऽल्पकाय सच्वव्यापादनेऽपि महान् बन्धः, अकामस्य अनाभोगादिना महाकाय व्यापादनेऽपि स्वल्पमिति गाथार्थः ॥ ६ ॥
एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ७ ॥
व्याख्या - आभ्यामेव स्थानाभ्यां अनयोर्वा स्थानयोर्महाकायालय कायव्यापादने कर्मबन्धः सदृशः असदृशो वा एतयोः स्थानयोर्व्यवहारो न विद्यते, निर्मुक्तिकत्वान्न युज्यते । एतयोरेव स्थानयोः प्रवृत्तस्थानाचारं विजानीयात् यतो - नहि जीवव्यापत्या हिंसोच्यते, जीवस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वात्, अपि विन्द्रियादिव्यापच्या हिंसा स्यात्, तथा चोक्तं" पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥ " अपि च हिंसा चतुर्धा, एका द्रव्यतोऽपि भावतोऽपि १, एका द्रव्यतो न भावतः २, एका भावतो हिंसा न द्रव्यतः ३, एका न द्रव्यतो न भावतः ४, अयमेको भङ्गः शुद्धः, अबन्धकत्वाद्, द्वितीयो भङ्गः जातेऽपि द्रव्यतः प्राणिवधे स्वल्पः कर्मबन्धः, भावतः परिणामस्य शुद्धत्वात् । भावसहितस्यैव कर्म्मबन्धोऽभिहितः, तथाहिवैद्यस्यागमानुसारेण सम्यक्रियां कुर्व्वतोऽपि पद्यातुरविपत्ति मंत्रति तथापि न वैरानुषङ्गो भवेद्दोषाभावात् । अपरस्य तु सर्पबुद्ध्या रज्जुमपि तो भावदोषात् कर्मबन्धः, यतः - " उच्चा लियंमि पाए, इरियासमियरस संकमट्ठाए । वावज्जेज्ज कुलिंगी,
For Private & Personal Use Only
www.jainelibrary.org