________________
एयगडाङ्ग-
छत्रं
दीपिकान्वितम् ।
॥१०४॥
पुच्छा, जिणंदपासंमि उत्तरं तइया । इक्कस्स निगोयस्स, अणंत भागो य सिद्धिगओ ॥ १॥" इति वचनात् सर्वेऽपि न सेत्स्यन्ति, न भव्यजीवविरहितं जगद्भविष्यति । न सिद्धिक्षेत्रं पूर्ण भविष्यति । सिद्धिं च निरन्तरमेव प्रयास्यन्ति, अतो " तमेव सचं नीसंकं, जिणेहिं पवेड्यं" इति वचनादेकान्तपक्ष नाश्रयेत् । अथ शाश्वतत्वमपि शास्तृणां न प्ररूपयेत् , यतस्तेषामपि सिद्धिगमनसद्भावादशाश्वतत्वमिति, अत एकान्तेनाशाश्वतत्वपक्षमपि न श्रयेत् । तथा सर्वेऽपि प्राणिनः चित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिभिभिन्नत्वात् विशदृशास्तथोपयोगासङ्ख्येयप्रदेशत्वामूर्तत्वादिधमैः कथश्चित् सदृशा इति । तथोल्लसितसवीर्यतया केचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद्वन्धिकसत्वा एवं भवन्तीत्येवं व्यवस्थिते नैकान्तपक्षो भवतीति निषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरुक्तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपि चागमेऽनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एवं सिद्ध्यतीत्ययमर्थः प्रतिपाद्यते, यदा चैवम्भूतं तदानन्त्यं, तत्कथं तेषां क्षयः । युक्तिरप्यत्र-सम्बन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति संसारोऽपि न मुक्ति| मन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते-नानयोर्व्यवहारो युज्यत इति ॥ ५॥
अधुना चारित्राचारमङ्गीकृत्याहजे केइ खुड्डुगा पाणा, अदुवा संति महालया । सरिसं तेहिं वेरंति, असरिसंती य नो वदे ॥ ६ ॥
व्याख्या-ये केचन क्षुद्राः प्राणिनः एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पश्चेन्द्रिया, अथवा 'महालया' महाकाया
द्वितीये श्रुत पश्चमाध्ययने दर्शनचारित्राचारविषयकमनाचारम-1
S
१०४॥
For P
Jan Education
www.ininelibrary.org
& Personal use only