________________
एयगडाङ्ग
द्वितीये
N
श्रुत
दीपिकान्वितम् । ॥१.३॥
पञ्चमाध्ययनेनारचारोपदर्शनम् ।
किमित्येकान्तेन न वदेदित्याह
एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणहिँ, अणायारंतु जाणए ॥३॥ व्याख्या-अयं लोको नित्य एवानित्य एव वा, अथवा सर्व वस्तु नित्यमेवानित्यमेव वा, एताभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यां अनयोर्वा पक्षयोर्व्यवहारो लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, एतावता | एकान्तपक्ष नाश्रयेत् , एकान्तपक्षाश्रयणं त्वनाचारः, स्याद्वादपक्षाश्रयणं वाचार इति । अत्र हेतुयुक्तयो बृहट्टीकातोऽत्रसेया, अत्र तु संक्षेपेण सूत्रार्थस्यैव प्रकाशनमिति गाथार्थः ॥ ३॥
तथाऽन्यमप्यनाचारं निषेद्धकाम आहसमुच्छिहिंति सत्थारो, सव्वे पाणा अणेलिसा। गंठिगावा भविस्संति, सासयंतिवणो वए ॥४॥
व्याख्या-सम्यनिरवशेषतया उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं यास्यन्ति यदिवोच्छेत्स्यन्ति-सिद्धिं यास्यन्ति, के ते? शास्तार-स्तीर्थकरास्तच्छासनप्रतिपमा वा 'सर्वे' निरवशेषाः सिद्भिगमनयोग्या भव्याः, ततश्चोत्सन्नमव्यं जगत्स्यादिति, अत्र शुष्कतर्काभिमानग्रहगृहीता युक्ति प्रकाशयन्ति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावात् अभव्यस्य च सिद्धिगमनासम्भवात् कालस्य चानन्त्यात् निरन्तरं सिद्धिगमनसम्मवेन तद्वययोपपत्तेरपूर्वभव्यजीवोत्पत्तेरभावाद्भन्योच्छेद इत्येवं नो वदेव , तथा सर्वेऽपि प्राणिनः 'अनीदृशाः' न सदृशाकाराः सन्तीत्येवमपि नो वदेत् । तथा प्रन्थिकाः सञ्चा:-सर्वेऽपि
१.३॥
Jain Education
|www.ininelibrary.org
a
For Private & Personal Use Only
l