SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Jain Education अथ पञ्चममाचारश्रुताध्ययनम् ܬ साम्प्रतं पञ्चममारभ्यते, तत्रेयमादिगाथा - आदाय बंभचेरं च, आसुपने इमं वयं । अस्तिँ धम्मे अणायारं, नायरेज कयाइ वि ॥ १ ॥ व्याख्या -' आदाय ' गृहीत्वा किं तद् ब्रह्मचर्यं सत्य भूतदया-तप इन्द्रियनिरोधलक्षणं एतन्मौनीन्द्र प्रवचने ब्रह्मचर्यमित्युच्यते, तदादाय 'आशुप्रज्ञः सदसद्विवेकज्ञः 'इमां' समस्ताध्ययनेनाभिधीयमानां वाचं[ इदं जगत् ] शाश्वतमेव शाश्वतमेव वा इत्यादिकां कदाचिदपि 'नाचरेत् ' न कथयेत् तथाऽस्मिन्धम्र्मे सर्वज्ञप्रणीते व्यवस्थितः सन् अनाचार - सावद्यानुष्ठानरूपं 'न समाचरेत् ' न विदध्यात् यदि वा केवलिप्रणीते धर्मे व्यवस्थितः 'इमां ' वक्ष्यमाणां वाचमनाचारं च कदाचिदपि नाचरेदिति श्लोकार्थः ॥ १ ॥ अथाचार्योऽनाचारं दर्शयितुं यथावस्थित लोकस्वरूपप्रकटनपूर्वकमाह अणादीयं परिन्नाय, अणवदग्गेति वा पुणो । सासयमसासए वा इति दिट्ठि न धारए ॥ २ ॥ व्याख्या - चतुर्दशरज्वात्मकं लोकमनादिकमनवद[ - अनन्तं] च परिज्ञाय - अपर्यवसानं च ज्ञात्वा शाश्वतमशाश्वतं वा इत्येकान्तेन न वदेत् इत्येवम्भूतां दृष्टिं न धारयेत्, पण्डितस्त्वेकान्तेन शाश्वतमेवाश्शाश्वतमेव लोकं न वदेदिति गाथाऽर्थः ||३|| १८ For Private & Personal Use Only • www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy