________________
यद्यपि देशकालस्वभावविप्रकृष्टानां, न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तत्प्रत्ययिकेन कर्मणा वध्यन्ते. तदेवं विप्रकृष्टविषयेऽपि बन्धकाः स्युरविरतत्वात् । अथोपसंजिहीर्षुराह इति___ इति खलु ते असन्निणो वि सत्ता अहोनिसं पाणातिवाए उवक्खाइजंति, जाव अहोनिसं
परिग्गहे उक्खाइजति जाव मिच्छादसणसल्ले उवक्खाइजति । | व्याख्या-'इति खलु' इह खलु ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तों न संज्ञान प्रज्ञा न मनो न वाक [1] स्वयं कत नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनं यावत् परितापनपरिक्लेशादप्रतिविरता, असंझिनोऽपि सन्तोऽहर्निशं प्राणातिपाते कर्तव्ये तद्योग्यतया तदसम्प्राप्तावपि ग्रामघातकबदुपाख्यायन्ते-कथ्यन्ते, यावन्मिथ्यादर्शनशल्ये उपाख्यायन्ते, एतावता असंजिनामपि प्राणिनां किमप्यकुर्वतामपि अविरतत्वात्पापकर्मवन्धो जायत इति भावः । तदेवं दृष्टान्तद्वयं प्रदर्य तत्प्रतिबद्धमेवाऽर्थशेष प्रतिपादयितुं शिष्यः प्रश्नं करोति-किमेते सच्चाः संज्ञिनोऽसंजिनश्च भव्याभव्यत्ववन्नियतरूपा एवाहोस्थित संज्ञिनो भूत्वा असंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवं शिष्येण प्रतिपादिते सत्याहाचार्य:___सव्वजोणिया वि खलु सत्ता सन्निणो हुच्चा असन्निणो हुंति असन्निणो हुचा सन्निणो हुंति । होच्चा सन्नी अदुवा असन्नी।
Jain Education in
For Private & Personal Use Only
Twww.jainelibrary.org