SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रत्ययिक कर्म बद्ध्नाति । एवं देशकालस्वभावविप्रकृष्टेष्वपि जन्तुषु अविरतत्वादमित्रभूतो भवति तत्प्रत्ययिकं च कर्माऽचि. नोति, सोऽयं संझिदृष्टान्तोऽभिहितः, स च कदाचिदेकमेव पृथ्वीकार्य व्यापादयति शेषेषु निवृत्तः, कदाचिद् द्वावेवं त्रिका| दिकाः संयोगा मणनीयाः, पावत्सर्वानपि व्यापादयतीति । स सर्वेषां व्यापादकत्वेन व्यवस्थाप्यते, सर्वविषयारम्भप्रवृत्तेः, यथा कश्चिद्वामघाताय प्रवृत्तः, यद्यपि च तेन विवक्षितकाले केचन पुरुषा न दृष्टास्तथाप्यसौ ततोऽनिवृत्तत्वात्तद्घातक इत्युच्यते, एवं जीवोऽप्यविरतत्वात् प्राणातिपातमृषावादादत्तमैथुनपरिग्रहक्रोधमानमायालोमादिकमकुर्वन्नपि तत्कर्माऽचिनोति, अष्टादशपापस्थानान्यकुर्वतोऽपि कर्मबन्धः स्यादविरतत्वादिति भावः । इति संज्ञिदृष्टान्तः, अधुना असंज्ञिदृष्टान्तः कथ्यते से किं तं असन्निदिटुंते ? जे इमे असन्निणो पाणा, तं जहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा वेगतिया तसा पाणा, जेसिं णो तक्काइ वा सन्नाति वा पन्नाति वा मणेति वा वईति वा सयं वा करणाए अन्नहिं वा कारावित्तए करतं वा समणुजाणित्तए, तेवि णं बाला सव्वर्सि पाणाणं जाव सोसि सत्ताणं दिया वा राओ वा सुत्ता वा जागरमाणा वा अमित्तभूता मिच्छासंठिया निच्चं पसढविउवातचित्तदंडा, तं० पाणाइवाए जाव मिच्छादसणसल्ले । इच्छेवं [ जइवि] जाव (?) नो चेवणं मणे नो चेव गंवई [ तहवि ] पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए Jain Education a l For Privats & Personal use on ASTwwwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy