SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, कीदृशो वधकः ? 'गाहावइस्से 'त्यादि, गृहपतिर्गृहपतिपुत्रो वा तस्योपरि कश्चिद्वधक संवृत्तः, स च वधपरिणामपरिणतोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञः राजपुरुषस्य वोपरि कुपित एतत्कुर्यादित्याह-'खणं निदाय' इत्यादि, क्षण-मवसरं 'निदाय'त्ति प्राप्य लब्ध्वा [वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीति तदध्यवसायी भवति, तथा क्षणमवसरं छिद्रादिकं वध[वध्यस्य लब्ध्वा तं वध्यं हनिष्यामीत्येवं सम्प्र. धारयति, तथा गृहपते राज्ञो वा कश्चित्कारणकोपाद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वा हनिष्यामीत्यवसरं-छिद्रमपेक्ष माणस्तदवसरापेक्षी, कश्चित् कालमुदास्ते, स च तत्रौदासीन्यं कुर्वाणः अपरेण कार्यादिना व्यग्रचेतास्तस्मिन्नवसरे व[ध]ध्यं प्रत्यस्पष्टविज्ञानो भवति, स चैवम्भूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुमैर्योगरेकेन्द्रियविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकपाययोगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरं अपेक्षमाणा उदासीना अपि अवैरिण इति, एवमस्पष्टविज्ञाना अपि वैरिणो भवन्तीति । साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थ परप्रश्नपूर्वकमाविर्भावयन्नाह-से किं नु हु' इत्यादि, आचार्यः स्वतो निर्णीतार्थोऽस्यया परं पृच्छति-किमसौ वधक पुरुषो[हनना]ऽवसरापेक्षी छिद्रं 'सम्प्रधारयन्' चिन्तयन् अहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो वा मिथ्यासँस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति ? आहोस्विनेत्येवं | पृष्टः पर समतया माध्यस्थ्यमवलम्बमानो यथाऽवस्थितमेव व्यागृणीयात् , यथा-हन्त आचार्य ! भवत्यसावमित्रभूत इत्यादि । तदेवं दृष्टान्तं प्रदर्य दान्तिकमाह Jain Education internatioN Far Private & Personal Use Oh leadinelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy