SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कस्य मनोवाकायव्यापारस्याभावात , अथैतव्यापारमन्तरेणापि कर्मवन्ध इष्यते ? एवं च सति मुक्तानामपि कर्मवन्धः स्यात् , न चैतदिष्यते, तस्मान्नैवं बन्धः, तत्र यदेवम्भूतैरेव मनोवाक्कायव्यापारैः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तस्तद्यथा-अविद्यमानैरेवाशुभैर्योगैः पापं कर्म क्रियते, मिथ्या ते एवमुक्तवन्त इति स्थितम् । तदेवं शिष्येणाचार्यपक्षं दूषयित्वा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तं सम्म'मित्यादि, यदेतन्मयोक्तं प्राग यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत् 'सम्यक' शोमनं युक्तिसङ्गतं इति । एवमुक्ते पर आह-'कस्य हेतोः१' केन कारणेन ? तत्सम्यगिति चेदाह तत्थ खलु भगवया छज्जीवनिकाया हेऊ पन्नत्ता, तं जहा-पुढविकाइया जाव तसकाइया, | इच्चेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निच्चं पसढविउवातचित्तदंडे, तं जहा-पाणाइवाए जाव परिग्गहे कोहे जाव मिच्छादसणसल्ले । ___व्याख्या-आचार्य आह-तत्र खलु भगवता षड्जीवनिकाया: कर्मबन्धहेतुत्वेनोपन्यस्तास्तद्यथा-पृथिवीकायिका यावत्रसकायिका इति । कथमेते षट्कायाः कर्मवन्धस्य कारणमित्याह-'इच्चेएहिं' इत्यादि, इत्येतेषु पृथिव्यादिषु षड्जीवनिकायेषु अप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा जन्तुः 'नित्यं सर्वकालं प्रकर्षण शठः तथा 'व्यतिपाते' प्राणिव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः, [स्वपरदण्डहेतुत्वादण्डः] प्रशठचासौ व्यतिपातचित्चदण्डश्चेति आत्मा, तद्यथा Jain Education Far Private & Personal use Oh wwwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy