________________
तथाऽप्रतिहताप्रत्याख्यातपापकर्मा भवति, एवंविधो जीवो भगवता असंयत अविरत अप्रतिहतप्रत्याख्यातपापकर्मा सक्रिय असंवत एकान्तबाल एकान्तसुप्तश्च कथिता, तदेवम्भूतश्च बालसुप्ततया 'अविचाराणि' अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाकायवाक्यानि यस्य स तथा, अविचारितमनोवाकायः निर्विवेकतया पडविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य चाव्यक्तविज्ञानस्य स्वप्नमयपश्यतः पापं कर्म बध्यते, एतावता यद्वस्तु स्वमेऽपि नायाति कदाचिदृष्टमपि न तस्यापि कर्मबन्धो लगति, अव्यक्तविज्ञानेनापि प्राणिना पापं कर्म क्रियत इति भावः । तत्र चैवं व्यवस्थिते परः प्रज्ञापकमेवमवादीत्-अत्र चाचार्याभिप्राय परः प्रतिषेधयति
असंतएणं मणेणं पावएणं असंतिआए वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमण[क्खस्स अवियारमणवयणकायवकस्स सुमिणमवि अप्पस्सओ पावे कम्मे नो कजइ, कस्स णं तं हेउं ? चोयगे एवं बवीति
व्याख्या-अविद्यमानेन असता मनसा तथा अप्रवृत्तेनाशोभनेन, तथा वाचा कायेन च पापेन असता, तथा सस्वान् अनिघ्नतः, तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमयपश्यतः, एवमव्यक्तविज्ञानस्य पापं कर्म न बङ्ख्यते, एवम्भूतविज्ञानेन पापं कर्म न क्रियत इति, तर्हि कथयन्तु पूज्याः ? कथं पाप कर्म बध्यते ? केन हेतुना-केन कारणेन कर्मबन्धः स्यात् ? नात्र कश्चिदव्यक्तविज्ञानत्वात् पापकर्म हेतुरिति । अथ पर एव स्वाभिप्रायेण पापकर्मबन्धहेतमाह
Jain Education internal
Far Private & Personal use Oh
Trainelibrary.org