SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Jain Education Internati अज्झारुहाणं सरीरा नाणावण्णा जावसक्खायं ॥ [ सूत्रं ५] व्याख्या - अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिहैके सत्रा वृक्षयोनिका भवन्ति, तत्र ये ते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया ये अपरे समुत्पद्यन्ते, तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, तेषु च वृक्षयोनिकेषु वृक्षेषु कम्र्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहा-वृक्षोपरि जाता वृक्षा इत्यभिधीयन्ते । ते च वल्ली वृक्षाभिधानाः कामवृक्षाभिधाना वा द्रष्टव्यास्तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इदं प्रथमं सूत्रं । इहापि प्राग्वचत्वारि सूत्राणि द्रष्टव्यानि तद्यथा-वृक्षयोनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः स्वयोनिभूतं वनस्पतिशरीरमाहारयन्ति तथा पृथिव्यप्तेजोवाय्वादीनां शरीरकमाहारयन्ति, तच्छरीरमाहारितं सदचित्तं विद्धस्तं विपरिणामितमात्मसात्कृतं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासँस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकम्मोपपन्ना भवन्त्येतदाख्यातमिति प्रथमं सूत्रम् १ ॥ अहावरं पुरखायं इद्देगतिया सत्ता अज्झारुहजोणिया अज्झारुहसंभवा जाव कम्मनिदाणेणं तत्थ वुक्कमा रुक्खजोणिएसु अज्झारुहेसु अज्झारुहत्ताए विउद्वंति, ते जीवा तेसिं अज्झारुह[ रुक्ख ] जोणियाणं अज्झारुहाणं सिणेहमाद्दारिंति, ते जीवा [ आहारित ]पुढविसरीरं जाव For Private & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy