SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern व्याख्या - इत्येतेषु द्वादशक्रिया स्थानेष्वधर्मपक्षः समवतार्यते, तत् एतेषु वर्त्तमाना जीवा नातीते काले सिद्धा न सिद्ध्यन्ति न सेत्स्यन्ति, तथा न बुबुधुर्न बुद्ध्यन्ते न भोत्स्यन्ते, तथा न मुमुचुर्न मुञ्चन्ति न च मोक्ष्यन्ते, न निर्वृता न निर्वान्ति न च निर्वास्यन्ति, तथा न सर्वदुःखानामन्तं ययुर्न च यान्ति न च यास्यन्ति । साम्प्रतं त्रयोदशं क्रियास्थानं धर्मपक्षाश्रितं दर्शयितुमाह- 'एयंसि ' इत्यादि, एतस्मित्रयोदशे क्रियास्थाने वर्त्तमानाः जीवाः सिद्धाः सिद्धयन्ति सेत्स्यन्ति यावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितम् । तदेवं स भिक्षुर्यः पुण्डरीकाध्ययनेऽभिहितो द्वादश क्रियास्थानवर्जकः अधर्म्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्तः आत्मा-त्मार्थसाधकः आत्महितः आत्मगुप्तः आत्मयोगी-सदा धर्म ध्याना वस्थितः, तथा पापेभ्यो- दुर्गतिगमनादिभ्यः आत्मा रक्षितो येन स आत्मरक्षी, सावद्यानुष्ठानान्निवृत्त इति भावः । तथाssस्मानमनुकम्पते - शुभानुष्ठानेन सद्गतिगामिनं विधत्ते, तथाऽऽत्मानं [संयमेन] संसारचारकान्निस्सारयति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशक्रियास्थानेभ्यः प्रतिसंहरेत् तथाऽऽत्मानं सर्वानर्थेभ्यो निवर्त्तयेदिति । एतच्च महापुरुषे सम्भाव्यते । इतिः परिसमाप्यर्थे, ब्रवीमीति पूर्ववत्, श्रीसुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य भाषते - श्रीवर्द्धमानस्वामीसमीपे मयैतच्छ्रुतं तद्भवतो निवेदितं, न स्वमनीषिकयेति समाप्तं क्रियास्थानाख्यं द्वितीयमध्ययनमिति । यदवापि मया पुण्यं, क्रियास्थानं विवृण्वता । तेन पुण्येन लोकोऽयं, भूयादानन्दमेदुरः ॥ १ ॥ इति श्रीपरमसुविहितखरतरगच्छ विभूषण पाठक प्रवर श्री मत्साधुरङ्गगणिवर कृतायां श्रीमत्सूत्रकृताङ्गदी पिकायां द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनं समाप्तम् ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy