SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पाणिं प्रसारयत, तेऽपि च तथैव कुर्युः, ततोऽसौ पुरुषस्तद्भाजनं तत्पाणौ समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति । ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत ? यूयं, एवममिहितास्ते ऊचुः-दाहभयादिति । एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः। [ स नः प्राह-] पाणिना दग्धेनापि किं भवतां भविष्यति ? दुःखमिति चेद्यद्येवं दाहभीरवो यूयं सुखाभिलाषिणश्च, तदेवंसति सर्वेऽपि जन्तवः संसारोदरविवरवर्त्तिन एवम्भूता एवेत्येवमात्मतुलया-ऽऽत्मौपम्येन यथा मम नाभिमतं दुःखमेवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाऽऽश्रयणीया । 'तदेतत्प्रमाणं' सैषा युक्तिः "आत्मवत् सर्व भूतानि, यः पश्यति स पश्यति" तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा सम्पूर्णा, तत्रैव परमार्थतो धर्म इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः 'एवं' वक्ष्य माणमाचक्षते-परेषामेवं भाषन्ते, तथैवं धर्म 'प्रज्ञापयन्ति ' व्यवस्थापयन्ति, तथाऽनेन प्राण्युपतापकारिणा प्रकारेण धर्म प्ररूपयन्ति, तथाहि-सर्वे प्राणा इत्यादि, यावद्धन्तव्या दण्डादिभिः, परितापयितव्याः धर्मार्थमरघडवहनादिभिः, परिग्राह्याः श्राद्धादौ रौहितमत्स्यादय इत्र, तथाऽपद्रावयितव्या देवतायागादिनिमित्तं छागादयः, इत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषा भाषन्ते ते आगामिनि काले 'अनेकशो' बहुशः स्वशरीरच्छेदाय मेदाय च भाषन्ते, तथा ते सावद्यभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति । [ योन्यां जन्म ] योनिजन्म, तदनेकशो गर्भव्युत्क्रान्तजा. वस्थायां प्राप्नुवन्ति, तथा संसारप्रपश्चान्तर्गताः कलङ्कलीभावभाजो भवन्ति बहुमो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां [ शारीराणां ] दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते मातृमरणादीनां मानसानां दुःखाना तथाऽन्येषामप्रिय. Jain Education a l For Private & Personal Use Ooh wwwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy