________________
| पतन्ति, कथं ! यदुपशान्तस्थानं तद्धर्मपक्षस्थान[मनुपशान्तस्थानमधर्मपक्षस्थान]मिति, तत्र च यदधर्मपाक्षिकं प्रथम | स्थानं तत्रामूनि त्रीणि विषष्ठवधिकानि प्रावादुकशतान्यन्तर्भवन्ति, एवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन
दर्शयितुमाह-'तं जहा' इत्यादि, तत्र क्रियावादिनः ज्ञानरहितां क्रियां स्वर्गापवर्गसाधिका वदन्ति, ते क्रियावादिनः | क्रियात एव मोक्षं वदन्तीति भावः। तत्र क्रियावादिनामशीत्युत्तरं शतं, अक्रियावादिनां चतुरशीतिः,अज्ञानिकानां सप्तषष्टिः, वैनायिकानां द्वात्रिंशदिति । एते सर्वेऽपि प्रावादुकाः मोक्षमार्ग कथयन्ति, तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मक मोक्षमाहुः । तेऽपि ' तीर्थकाः 'लपन्ति' वदन्ति-मोक्षं प्रति धर्मदेशनां विदधतीति । शृण्वन्तीती श्रावकाः, अहो श्राव का। एवं गृह्णीत यूयं यथाऽहं देशयामीति । तथा तेऽपि धर्मश्रावयितास सन्तः एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन स्वर्ग मोक्षावाप्तिरिति, तद्वचनं मिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति, तथा कथमेते प्रावादुकाः* अहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति । तथा सर्वे प्रावादुकाः मोक्षाङ्गभूतामहिमां अप्राधाम्येन प्रतिपद्यन्ते इति दर्शयितुमाह
ते सवे पावाउया आइकरा धम्माणं नाणापन्ना नाणाछंदा नाणासीला नाणादिही नाणारुई नाणारंभा नाणाऽज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किंचा सवे एगओ चिट्रंति । पुरिसे य
*"मिध्यावादिनो भवन्तीति १ अत्रोच्यते-यतस्तेऽपि" इति वृदृत्ती।
Jain Educationallanal
१३
For Private & Personal Use Only
wwwEjainelibrary.org