SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिका न्वितम् । ॥ ६९ ॥ Jain Education Interna प्यत एव न लिखितः । अन्यच्च - विशेषार्थिना औपपातिकमाचाराङ्गसम्बन्धिप्रथममुपाङ्ग, तत्र च साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते, तदिहापि तेनैव क्रमेण द्रष्टव्यमिति । तथा एवंविधाः साधवः * सर्वगात्र परिकर्म्मविप्रमुक्ता- निष्प्रतिकर्म शरीरास्तिष्ठन्तीति । तथोग्रविहारिणः प्रव्रज्यापर्यायमनुपालय आबाधारूपे रोगातङ्के समुत्पन्ने अनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति । किं बहुनोक्तेन ? यत्कृतेऽयमयोगोलकवन्निरास्वादः करवालधारामार्गवदुरध्यवसायः श्रमणभावोऽनुपालयते तमर्थं सम्यग्दर्शनज्ञानचारित्राख्यमाराव्याव्याहत मे कमनन्तं केवलज्ञानमवाप्नुवन्ति, केवलज्ञानावाप्तेरू सर्वदुःखविमोक्षणलक्षणं मोक्षमवाप्नुवन्ति । एके पुनरेकया अर्चया एकेन शरीरेण एकस्माद्वा भवात्सिद्विगतिं गन्तारो भान्ति, अपरे अज्ञातोऽनुपदर्शितस्वाजन्यादिभावः संश्चरति यः स तथा । 'दिलाभिए 'ति दृष्टस्यैव भक्तादेर्दृष्टाद्वा-पूर्वोपलब्धादाय का लाभो यस्यास्ति स दृष्ट्रलाभिकः । ' अदिट्ठलाभिए ' तत्रादृष्टस्यापि अपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वापूर्वगन्धादायकालाभो याति स तथा । 'पुलाभिए 'चि पृष्टस्यैव ' हे साधो ! किं ते दीयते ? ' इत्यादिप्रश्नितस्य यो लाभो यस्यास्ति स तथा । ' अपुलाभिए 'ति [ पृष्टलाभिकविपर्ययात् । 'भिक्खलाभिए 'त्ति ] भिक्षेत्र भिक्षा तुच्छमवज्ञातं वा, तल्लामो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः । 'अभिक्खलाभिए 'ति उक्तविपर्ययात् । [ अज्ञातचरका - अज्ञातगृहेषु चरन्तीत्यभि ग्रहवन्तः ] । ' अन्नगिलायए 'त्ति अन्नं भोजनं विना ग्लायति ( यः स ) अन्नग्लायकः, स चाभिप्रहविशेषात्प्रातरेव दोषाऽन्नभुगिति । 'उवनिद्दिय 'ति उपनिहितं [ यथा कथविदासन्नीभूतं तेन चरति यः स औपदिकः ]" इत्यादि । * ' धूतं ' अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा इति बृहद्वृत्तौ । For Private & Personal Use Only द्वितीये श्रुत● द्वितीया ध्ययनेऽ• नगारगुण वर्णनम् - 1 ॥ ६९ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy