________________
सहिया गामणियंतिया कोई राहस्सिया, जाव ते तओ विप्पमुच्चमाणा भुजो २ एलमूयत्ताए [तमूत्ताए ] पञ्चायति । एस ठाणे अणारिए अकेवलिए जाव असवदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मीसगस्स विभङ्गे एवमाहिते ॥ [ सू० १९]
व्याख्या-अथापरस्य तृतीयस्य स्थान कस्य मिश्राख्यस्य विभङ्गा-स्वरूपमाख्यायते, अत्राधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्य प्राचुर्यादधर्मपक्ष एव द्रष्टव्यः, एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपातादिनिवृत्ति कुर्वन्ति तथाप्याशयाविशुद्धत्वात् अभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवतरप्रदेशवृष्टिवद्विवक्षितकार्यासाधकत्वान्निरर्थकतामापद्यते, तथा मिथ्यात्वानुभवान्मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्यः। []तदेव दर्शयितुमाहये इमे आरण्यिका:-कन्दमूलफलाशिनस्तापसाः वनवासिनो, ये च आवसथिका:-गृहिणस्ते च कुतश्चित्पापस्थानानिवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयः, ते च यापवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति, तथापि ते आसुरीयेषु स्थानेषु किल्बिषिकेषु उत्पद्यन्ते, इत्यादि सर्व पूर्वोक्तं भणनीय, यावत्तत युता मनुष्यमवं प्रत्यायाता एलकमूकत्वेन तमोऽन्धतया जायन्ते, तदेवमेतत्स्थानमनार्य अकेवलं-असम्पूर्ण अनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैवैतदमाध्विति तृतीयस्थानस्य मिश्रस्यायं विभङ्गः-स्वरूपमाख्यातमिति । उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतं तदेव विशेषेण कथयति
अहावरे पढम स्स] ठाणस्स अहम्मपक्खस्स विभंगे एवमाहिज्जति, इह खल पाइणं वा ४
Jan E
IN
For Private & Personal Use Only
www.ininelibrary.org