SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रभानक्षत्रयोगराहुग्रहणादिकं, सूर्यचरित-सूर्यस्य मण्डलपरिमाणराशिपरिभोगोयोतावकाशराहूपरागादिकं, तथा शुक्रचारो वीथीत्रयप्रचारादिकः, तथा बृहस्पतिचारः [ उदयास्तवर्षफलादि ] शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकः, तथोल्कापातदिग्दाहाश्च वायव्यादिषु मण्डलेषु मवन्तः शस्त्राग्निक्षुत्पीडाविधायिनो भवन्ति, तथा मृगभृगालादीनां आरण्यकजीवानां रुतदर्शनग्रामनगरप्रवेशादौ (या) शुभाशुभचिन्ता तन्मृगचक्रं, तथा वायमादीनां पक्षीणां यत्र स्थानदिक्स्वराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पांशु केशमाँसरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शास्त्रे चिन्त्यते, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यस्ताश्चेमा:-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, सा च किल कतिभिर्जापैर्दण्डमुत्थापयति, तथाऽर्द्धवैताली तमेवोपशमयति, तथाऽवस्वापिनी+प्रमुखाः सर्वा अपि विद्या ज्ञातव्याः । तदेवमादिकाः प्रज्ञप्त्यादिकाश्च गृह्यन्ते, एताश्च पाषण्डिका अविदितपरमार्था गृहस्था वा स्वयूथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाद्यर्थ प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणां कामभोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्यासेवनमनर्थकारीति दर्शयितुमाह'तैरिश्च 'मित्यादि, तिरश्चीनां सदनुष्ठानविघातिनी ते अनार्या विप्रतिपन्ना विद्या सेवन्ते, यद्यपि ते भाषाः क्षेत्रास्तिथाप्यनार्यकर्मकारित्वादनार्या एव द्रष्टव्याः। ते च स्वायुषःक्षये कालमासे कालं कृत्वा यदि कथश्चिदेवलोकगामिनो भवन्ति, ततोऽन्यतरेवासुरीयेषु किल्बिषिकादिस्थानेषूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ता यदि मनुष्येषत्पद्यन्ते, तत्र च तत्कर्मशेषतया + " तालोद्घाटीनी श्वापाकी शावरी द्राविडी कालिङ्गी गौरी गान्धारी अवपतनी उत्पतनी जम्मिनी स्तम्भिनी श्लेषिणी आमयकारिणी विशल्यकारिणी अन्तर्धानकारिणी" इति हर्ष० । Jain Educational For Pale & Personal Use Oy ForwEEnelorey.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy