________________
1 पत्र I दीपिकान्वितस् ।
द्वितीये श्रु. द्वितीये
ध्ययने पापश्रुतवर्णनम् ।
॥५०॥
थंभणिं लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमणिं, एवमाइयाओ विजाओ अन्नस्स हेउं पउंजंति पाणस्स हेउं पउंजंति वत्थस्सा लेणस्स०सयणस्स० अन्नेसि वा विरूवरूवाणं कामभोगाणं हेउं पउंजंति, तेरिच्छं ते विजं सेवंति, अणारिया विप्पडिवन्ना कालमासे कालं किच्चा, अन्नयराइं आसुरियाई, किब्बिसियाई ठाणाई उववत्तारो भवंति, +ते ततो विप्पमुच्चमाणा भुजो एलमूयत्ताए तमअंधयाए पञ्चायति । ( सू० १५)
व्याख्या-भूमौ भवं भौम-निर्घातभूकम्पादिकं, उत्पात-कपिहसितादिकं, स्वप्नं-गजसिंहवृषभादिकं अंग-अक्षि बाहुस्फुरणादिकं, स्वरलक्षणं-काकस्वरगम्भीरस्वरादिकं, लक्षणं-यवपद्मादिकं, व्यञ्जनं-मषतिलकादि, तथा स्त्रीलक्षणं [रक्तकरचरणादिकं, एवं ]पुरुषलक्षणादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानं, तथा मन्त्रविशेषरूपा विद्या, तथाहि-सौभाग्यकरां, दुर्भाग्यकरां, तथा 'गर्भकरां' गर्भाधानविधायिनी, मोहकरां-व्यामोहोत्पादिकां, आथर्वणी-सद्योऽनर्थकारिणी, तथा 'पाकशासनी' इन्द्रजालसंक्षिका, तथा नानाविधद्रव्यैः कणवीरपुष्पादिभिःघृतमध्वादिमिर्हवनं, तथा क्षत्रियाणां विद्या धनुर्वेदादिका( तां), तथा ज्योतिषमधीत्य व्यापारयन्ति, 'चंदचरिय 'मित्यादि, चन्द्रचरित्रं वर्णसंस्थान
+ नास्ति एतौ शब्दो सवृत्तिकमुद्रितप्रतिषु । ४ ' तथाऽऽन्तरीक्षं-अमोघादि' इति बृहवृत्तौ ।
Jain Education internal
Far Private & Personal use Oh
T
HEjainelibrary.org