SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मगात्रसञ्चारा भवन्ति, तया क्रियया यद् बध्यते कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह'सा पढमसमयेत्यादि, याऽसावकषायिणः क्रिया तया यद्वध्यते कर्म, तत्प्रथमसमय एव बद्धं स्पृष्टं चेति कृत्वा तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदिता तृतीयसमये निर्जीर्णा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत् स्थितिश्च कषायायत्ता तदभावाच न तस्य सांपरायिकस्येव स्थितिः, किन्तु योगसद्भावाद्वध्यमानमेव 'स्पृष्टतां' संश्लेषं याति, द्वितीयसमये त्वनुभूयते, तच्च प्रकृतितः सातावेदनीय स्थितितो द्विसमयस्थितिकं अनुभावतः शुभानुभावमनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च । तदेवं सा ईर्यापथिका क्रिया प्रथमसमये बद्धस्पृष्टा द्वितीये समये उदिता वेदिता निर्जीर्णा भवति । 'सेयकाले 'ति आगामिनि तृतीयसमये तत्कर्मापेक्षया अकर्मतापि च भवति । एवं तावद्वी. तरागस्येर्याप्रत्ययिक कर्म 'आधीयते' सम्बध्यते । तदेतत्रयोदशमं क्रियास्थानं व्याख्यातं, ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः । तेषां वीर्यापथवर्जाणि द्वादशक्रियास्थानानि, तेषु(१) वर्तन्ते, तेषां च तद्वर्तिनामसुमतां मिथ्यात्वाविरतिप्रमादकषाययोगनिमित्तः साम्परायिको बन्धो भवति, स त्वनेकप्रकारस्थितिका, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् । एतानि त्रयोदशक्रियास्थानानि न वर्द्धमानस्वामिनैवोक्तानि, किन्त्वन्यैरपीत्येतदर्शयितुमाह-' से बेमी 'त्यादि, सोऽहं ब्रवीमि-यत्प्रागुक्तं तद्ब्रवीमि इति, तद्यथा--येऽ(हन्तोऽ)तिक्रान्ताः, ये च वर्तः | मानाः, ये चागामिनि काले भविष्यन्ति, ते सर्वेऽप्येवं +प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति, तथैतदेव त्रयोदशं क्रिया-IN +'अभाषिषुः भाषन्ते भाषिष्यन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्चेति वृत्तौ । Jain Education inte har For Private & Personal Use Oh WwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy