________________
सूयगडात
स्त्रं दीपिकान्वितम्।
| आहि[ते]ता* । से बेमि जे अतीया जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंता सवे ते एयाई चेव तेरस किरियाठाणाई भासिंसु वाभासिंति वा भासिस्संति वा, पन्नविंसु वा पन्नावति वा पन्नविस्सांत वा, एवं चेव तेरसमं किरियाठाणं सेविंसु वा सेविंति वा सेविस्संति वा॥ [सू०१४॥] ___ व्याख्या-अथापरं त्रयोदशं क्रियास्थानमीर्यापथिकं ४ नामाख्यायते-इह खलु प्रवचने संयमे वा [आत्मनो भाव] आत्मत्वं, तदर्थमात्मत्वार्थ संवृतस्य अनगारस्य ईर्यादिसमितस्य तथा त्रिगुप्तिगुप्तस्य गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्म चारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्त्वग्वर्तनां कुर्वाणस्य, तथोपयुक्तमेव वस्त्रं पतदहं कम्बलं पादप्रोन्छन वा गृहतो निक्षिपतो वा, यावच्चक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वत: सतोऽत्यन्तमुपयुक्तस्याप्यस्ति-विद्यते विविधा मात्रा [विमात्रा], तदेवंविधा सूक्ष्माक्षिपक्षमसञ्चलनरूपादिकर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि-सयोगी जीवो न शक्नोति क्षणमप्येक निश्चलः स्थातुं, अग्निताप्यमानोदकवकार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, केवलिनोऽपि किन्तु सर्वेषामपि क्रियास्थानानामुपसंहारसूत्रवदत्रापि ' आहिज्जती 'त्यस्य स्थाने आहिते ' वा · आहिए ' इति भवितुमर्हतीत्युद्बोधनार्थ लेखकादिभिः पुनरुक्ततया लिखितो भविष्यतीति सम्भावनाय न किमप्ययुक्तत्वं प्रतिभासते। "ईरणं-ईर्या, तस्यास्तया वा पन्था ईर्यापथः स विद्यते यस्य तदर्यापथिकं, एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं तु इदं-सर्वत्रोपयुक्तस्य निष्कषायस्य समीक्षितमनोवाकायक्रियस्य या[क्रिया ]तया यत्कर्म तदीर्यापथिकं सैव वा क्रिया ईर्यापथिकम्" इति हर्ष कुलः ।
द्वितीये श्रुत द्वितीयाध्ययने प्रयोदशमक्रियास्थानवर्णनम् ।
॥४८॥
॥४८॥
For Private & Personal Use Only
Jain Education Intel
diww.jainalibrary.org