________________
-
-
च कन्दमूलफलाहाराः सन्तः केचन वृक्षमुले वसन्ति, केचन ' आवसथेषु' शूद्र(पूड )वा[उटजा]कारेषु गृहेषु, तथाऽपरे ग्रामादिकमुपजीवन्तो ग्रामसमीपे वसन्तीति ग्रामान्तिकाः, कचि( कदाचि)त्कार्य मण्डलप्रवेशादिके रहस्य येषां ते राहसिकास्ते च ' न बहुसंयताः' न. सर्वसावद्यानुष्ठानेभ्यो विरता, एतदुक्तं भवति-न बाहुल्येन प्रसेषु दण्डसमाऽरम्मं विदधति, एकेन्द्रियोपजीविनस्त्वविगानेन तापसादयो भवन्ति, तथा 'न बहुविरता'न सर्वेष्वपि प्राणातिपातविरमणादिव्रतेषु वर्तन्ते, किन्तु द्रव्यतः कतिपयव्रतवर्तिनो, न भावतो, तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः । इत्येतदेवाऽऽविर्भावयितुमाह-सव्वपाणे 'त्यादि, ते ह्यारण्य कादयः सर्वप्राणभूतजीवसत्वेभ्य 'आत्मना' स्वतोऽविरता:- तदुपमर्दकादारम्भादविरता इत्यर्थः । ते पाषण्डिका आत्मना बहूनि स(त्य)त्यामृषाभूतानि वाक्यानि ' एवं ' वक्ष्यमाणनीत्या विशेषण प्रयुजन्ति, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृपाभूतानि स(त्य)त्यामृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति, तद्यथाअहं ब्राह्मणवान हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, तथाहि तद्वाक्यं-'शुद्रं व्यापाद्य प्राणायाम +जपेत् किश्चिद्वा दद्यात् , तथा 'क्षुद्रसच्चानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये'दित्यादि, अपरश्चाहं वर्णोत्तमचान आज्ञापयितव्योऽन्ये तु मत्तोऽवमाः[ ऽधमाः समाज्ञापयितव्याः, तथा नाइं परितापयितव्यः [ अन्ये तु परितापयितव्याः], तथाऽहं वेतनादिना कर्मकरणाय न ग्राह्यः अन्ये तु शुद्रा ग्राह्या x इति । किम्बहुनोक्तेन ? नाहमुपदावयितव्यो-न जीवितादपरोपयितव्योऽन्येत्व()पद्रावयितव्या इति । तदेवं परपीडोपदेशनतोऽतिमूढतयाऽसम्बद्धप्रलापिनामज्ञानावताना
+ श्वासप्रश्वासरोधनम् । ४ मूले ग्रहणसूत्रानन्तरं परितापसूत्रमस्ति ।
For Private & Personal Use Only
N
Jan Education
ewww.jainalibrary.org