SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 'नो विउद्दह' इति नापि तन्मायाशल्यं वित्रोटयति, अपुनःकरणतया न निवर्तयतीत्यर्थः। [नापि तन्मायाऽऽदिकमकार्य | सेवित्वाऽऽलोचनाऽर्हायाऽऽत्मानं निवेद्य तदकार्याकरणतयाऽम्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोयुक्तविहारी भवतीत्यर्थः । तथा नापि गर्वादिभिरभिधीयमानोऽपि यथाऽईमकार्य निर्वहणयोग्यं प्रायचित्तं-शोधयतीति प्रायश्चित्तं तपाकर्म विशिष्टं चान्द्रायणाद्यात्मकं 'प्रतिपद्यते' अभ्युपगच्छति । ] नो यथायोग्यं प्रायश्चित्तं प्रतिपद्यते, तदेवं मायया सत्कार्यप्रच्छादकोऽस्मिन्नेव लोके मायावीत्येवं सर्वकार्येम्वेवाविश्रम्भणत्वेन 'प्रत्यायाति' प्रख्याति याति, तथाभूतश्च सर्वस्याविश्वास्यो]. सो (1) भवति । तथाऽतिमायाविवादसौ परलोके सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु पौनःपुन्येन प्रत्यायातिसा भयोभ्यस्तेम्वेवारघट्टघटीन्यायेन प्रत्यागच्छति । तथा नानाविधैः प्रपञ्चैर्वञ्चयित्वा परं 'निन्दति ' जुगुप्सते, तद्यथा अयमझो मूर्खः पशुकल्पो, नानेन किमपि प्रयोजनमित्येवं परं निन्दति आत्मानं प्रशंसयति, तथाऽऽत्मप्रशंसया तुष्यति, एवं चासौ लब्धप्रसरोऽधिकं तथाविधानुष्ठायी भवति । निश्चरति-तस्मान्मातृस्थानान्न निवर्तते । तथाऽसौ मायया 'दण्ड' प्राण्युपमर्दकारिणं 'निसृज्य' पातयित्वा पश्चाच्छादयति-अपलपति अन्यस्य[ वा ]उपरि प्रक्षिपति । स च मायावो सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेऽप्येवम्भूतो भवति- असमाहृता' अनङ्गीकता शोभना लेश्या येन स तथा, आर्तध्यानोपहततया अशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽममाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं तस्य मायाशल्यप्रत्ययिकं सावधं कर्माधीयते, तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातम् । +[ ] नास्त्येतविद्वान्तर्गतपाठः प्रत्यन्तरेषु । For Private & Personal Use Oy Jain Education in |www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy