________________
सूर्यगढाज पुत्रं
दीपिकान्वितम् ।
॥ ४४ ॥
Jain Education Inte
प्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशङ्कया भवन्ति तस्मिँश्च देशान्तरं गच्छति तत्सहवासिनः सुमनसो मवन्ति । तथाप्रकारच पुरुषजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, तदेव दर्शयतिदण्डपार्थी स्वल्पेऽप्यपराधे कुप्यति दण्डं च पातयति, दण्डेन गुरुको भवति, तथा दण्डपुरस्कृतः - सदा पुरस्कृतदण्ड इत्यर्थः । स चैवम्भूतः ‘अस्मिँल्लोके' अस्मिञ्जन्मनि अहितः प्राणिनामहितदण्डापादनात्, तथा परस्मिन्नपि जन्मन्यसावहितः, येनकेनचिन्निमित्तेन क्षणे क्षणे सज्ज्वलतीति सज्वलनः स चात्यन्तक्रोधनो बधबन्धविच्छेदनादिषु शीघ्रमेव क्रियासु प्रवर्त्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्धदृनतः पृष्ठिमासमपि खादेत्तदसौ ब्रूयाद्येनासौ परः सज्ज्वलति, तदेवं तस्य महादण्डप्रवर्त्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्म्म बध्यते, तदेतदशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति । अहावरे एक्कारसमे किरियाठाणे मायावत्तिएत्ति आहिज्जति, जे इमे भवंति गूढायारा तमोकासिया उलूगपत्तलहुया पवयगुरुआ ते आरिया वि संता अणारियाओ भासाओ वि प्परंजंति, अन्ना संता अप्पाणं अन्नहा मन्नति, अन्नं पुट्ठा + अन्नं वागारंति, अन्नं आइक्खियवं अन्नं
X “ अन्ये पुनरष्टमं क्रियास्थानमात्मदोष प्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिकं, दशमं पुनः प्राणवृत्तिकमिति " हर्षकुलः । + यद्यपि दीपिकाप्रतिषु सर्वास्वपि 'अन्नं पुण कुर्णति अन्नं० ' इत्येवंरूपः पाठोऽस्ति मूले, परं सवृत्तिकमुद्रित प्रतिषु ' अन्नं पुट्ठा अन्नं० ' इत्येवम्भूतोऽस्ति, अर्थो दीपिकायामप्येवंविध एव विहित इत्ययमेव मूले निवेशितः ।
For Private & Personal Use Only
द्वितीये
श्रुत०
द्वितीयेऽ
ध्ययने
एकादशमक्रिया
स्थान
वर्णनम् ।
॥ ४४ ॥
www.jainelibrary.org