________________
जुगुप्सते गर्हति परिभवति, एतानि चैकार्थिकानि । यथा परिभवति तथा दर्शयति-'इतरोऽयं' जघन्यो हीनजातिकस्तथा | मत्ता कुलबलरूपादिभिरमपभ्रष्टः सर्वजनावगीतोxऽयमिति, अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समत्कर्षयेदिति+ । साम्प्रतं मानोत्कर्षविपाकमाह
देहा चुए कम्मबितिए अवसे पयाइ, तं जहा-गब्माओ गन्भं जम्माओ जम्मं माराओ मारं नरगाओ नरगं, चंडे थद्धे चवले माणी आवि भवति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजति। नवमे किरियाठाणे माणवत्तिए[त्ति] आहिते [सू० १०॥ ___व्याख्या-'देहा चुए'त्ति, तदेवं जात्यादिमदोन्मत्तः सनिहैव लोके गर्हितो भवति, *जातिमदः कस्यचिन कुलमदोऽपरस्य कुलमदोन जातिमदः, अपरस्योमयं, अपरस्यानुभयमिति, एवं [पदद्वयेन चत्वारो भङ्गाः] पदत्रयेणाष्टौ, चतुर्भिः षोडशेत्यादि यावदष्टभिः पदैः षट्पश्चाशदधिकं शतद्वयमिति, सर्वत्र मदामावरूपश्चरमभङ्गः शुद्ध इति । परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते । स्वायुषः क्षये देहाच्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः
x निन्दनीयः । + वक्ष्यमाणः । तदेव ' मित्यादितः । शुद्ध ' इति पर्यन्तः पाठोऽत्रत्य आभाति । · परलोकेऽपी 'ति वाक्यं च 'भवती 'त्यस्थाले । इति टिप्पणं आगमोदयसमितिमुद्रितासु सवृत्तिकप्रतिषु । * " अत्र च जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति" इति वृत्तौ।
Jain Education
For Privats & Personal Use Oh
www.jainelibrary.org