________________
का
व्याख्या-अथापरं सप्तमं क्रियास्थानमदत्चादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वज्ज्ञेयम् । स यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं [ स्वयमेय] परद्रव्यमदत्तमेव गृह्णीयात् अपरं च ग्राहयेत् गृह्णन्तमप्यपरं समनुजानीया. दित्येवं तस्यादत्तादानप्रत्ययिकं कर्म बध्यते । सप्तमं क्रियास्थानमाख्यातमिति । ___ अहावरे अट्टमे किरियाठाणे अज्झत्थवत्तिएत्ति आहिजति । से जहा नामए केइ पुरिसे णत्थि णं केति किंचि विसंवादेति, सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अदृज्झाणोवगए भूमिगयदिट्ठीए झियाइ, तस्स णं अज्झत्थिया असंसइया चत्तारि ठाणा एवमाहिति, तंजहा-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजति, अट्ठमे किरियाठाणे अज्झथिएत्ति आहिए [ सू०९]॥
व्याख्या-अथापरमष्टमं क्रियास्थानमाध्यात्मिकमित्यन्तःकरणोद्भवमाख्यायते, मानसिकमित्यर्थः। तद्यथा नाम कश्चित् पुरुषश्चित्तोत्प्रेक्षाप्रधानस्तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिविसंवादेन परिभवेन वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाऽप्यसौ स्वयमेव वर्णापशदवद्धीनो दुर्गतवद्दीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया
Jain Education
For PrivatePersonal Use Only
www.jainelibrary.org