________________
द्वितीवे
श्रुत
सूयगडा
सूत्रं दीपिकान्वितम् ।
वा
अन्नं समणुजाणाति, एवं खलु तस्स तप्पतियं सावजांत आहिजति, छ? किरियाठाणे मोसव- त्तिए ति] आहिते [ सू०७] ॥
व्याख्या-अथाऽपरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र पूर्वोक्तानां पश्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपघातो भवतीति कृत्वा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन परव्यापादनं न भवतीति कृत्वा क्रियास्थानमित्येषा संज्ञोच्यते । स यथा नाम कश्चित् पुरुषः स्वपक्षावेशादागृही आत्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिन्हवरूपमसद्भूतोद्भावनरूपं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो वा कश्चिच्चौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा परमचौरं चौरमिति वदति, तथाऽन्येन मृषावाद भाणयति, तथाऽन्यांश्च मृपावाद वदतः समनुजानीते । तदेवं खलु तस्य योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावधं कर्माधीयते-सम्बध्यते, तदेतत्वष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यातमिति । __अहावरे सत्तमे किरियाठाणे अदिन्नादाणवत्तिए[ ति] आहिजति-से जहा नामए केइ पुरिसे आयहेउं वा जाव परिवारहेउं वा सयमव अदिन्नं आदियति अन्नेण वि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजति । सत्तमे किरियाठाणे आदिन्नादाणवत्तिएत्ति अहिते [ सू०८]॥
द्वितीयेध्ययने षष्ठक्रियास्थानवर्णनम् ।
॥४१॥
1
For PrivatePersonal Use Only
wwwjainelibrary.org
in dat
A