________________
अणहादंडे २, हिंसादंडे ३, अकम्हादंडे ४, दिट्ठीविपरियासियादंडे ५, मोसवत्तिए ६, अदिन्नादाणवत्तिए ७, * अज्झत्थिए ८, माणवत्तिए ९, मित्तदोसवत्तिए १०, मायावनिए ११, लोभवत्तिए | १२, इरियावहिए १३ । [ सू० १]
व्याख्या-एके आर्या एके अनार्याः भवन्ति, याववरूपाः सुरूपाश्चेति । तेषामार्यादीनामिदं-वक्ष्यमाणमेतद्रूपं 'दण्डः ' पापोपादानसङ्कल्पस्तस्य 'समादानं ' ग्रहणं संपेहाए 'त्ति सम्प्रेक्ष्य, तच्चतुर्गतिकानामन्यतमस्य भवति, तद्यथा-नारकादिषु, ये चान्ये तथाप्रकारास्तभेदवर्तिनः सुवर्णदुर्वर्णादयः प्राणिनो विद्वाँसो 'वेदना' ज्ञानं, तद्वेदयन्त्यनुभवन्ति, यदिवा सातासातरूपां वेदनामनुभवन्तीति, अत्र चत्वारो भङ्गास्तद्यथा-संझिनो वेदनामनुभवन्ति विदन्ति च १, सिद्धास्तु विदन्ति नानुभवन्ति २, असंझिनोऽनुभवन्ति न विदन्ति ३, अजीवास्तु न विदन्ति नानुभवन्ति ४। इह पुनः प्रथमतृतीयाभ्यामधिकारो, द्वितीयचतुर्थाववस्तुभूताविति । 'तेषां च' नारकतिर्यमनुष्यदेवानां तथाविधज्ञानवतां 'इमानि' वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्ति, एवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि? पुन
* यद्यपि सटीकमुद्रितप्रतिष्वत्र परत्र च सर्वत्रापि 'अज्झत्थवत्तिए' इत्येकरूप एव पाठोऽस्ति, परं दीपिकाप्रतिषु समप्रास्वप्यत्र 'अज्झथिए' इत्येवमुपलभ्यते, वृत्तिकृताऽपि 'आत्मन्यध्यध्यात्म-तत्र मव आध्यात्मिकः' इत्येवमों विहित अतो दीपिकापाठः युक्त इत्याभाति ।।
Jain Education Internatil
For Private & Personal Use Only